SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ १३८ पृहत्करपस्त्रे प्रमार्जनिकारूपम् न कल्पते इति भावः ॥ सू० ४४ ॥ निम्रन्थविषये विधिसूत्रमाह-'कप्पइ' इति । कल्पते निम्रन्थानां दारुदण्डकं काष्ठमयदण्डिकायुक्तं पादप्रोञ्छनकम् दण्डोपरिमागवद्धदशिका समूहं पादप्रोञ्छनार्थ प्रमार्जनिकारूप धारयितुं परिभोक्तुं वा कल्पते ॥ सू०४५॥ पूर्व ब्रह्मचर्यवतरक्षणार्थ विशेषतः श्रमणीमधिकृत्य एकाकिनी विहारादिदारुदण्डकपादप्रोञ्छनधारणपर्यन्तवक्तव्यता प्रतिपादिता, सम्प्रति तस्यैव व्रतस्य रक्षणार्थ निर्ग्रन्थनिर्ग्रन्थीद्वयमधिकृत्य मोकसूत्रमाह-'नो कप्पइ' इत्यादि । सूत्रम्-नो कप्पइ निग्गंधाण वा निग्गंथीण वा अन्नमन्नस्स मोयं आपिवित्तए वा आयमित्तए वा नन्नत्य गाढागाटेहि रोगायंकेहिं ।। सू० ४६॥ छाया-नो कल्पते निग्रन्थानां वा निर्गन्थीनां वा अन्योन्यस्य मोकम् आपातुं वा आचमितुं वा नान्यत्र गाढागाढेभ्यो रोगातडेभ्यः ॥ सू० ४६ ।।। चूर्णी--'नो कप्पई' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा श्रमणश्रमणीनां अन्योन्यस्य--परस्परस्य-साधोः-साव्याः साध्याश्च साधोः, इत्येवम् एकद्वितीययोः मोकम्-प्रत्रवणम् आपातुं आचमितुं वा न कल्पते, परस्परमोकग्रहणे वशीकरणादिदोपसंभवात् । किं सर्वथा न कल्पते ? इत्याह-'नन्नत्य' इति नान्यत्र, अन्यत्र न, कुत्र न ? इत्याह-'गाढागादेहि इति । गाढागाढेभ्यः रोगातङ्केभ्योऽन्यत्र न, गाढागाढा इत्यत्यन्तगाढाः कष्टसाध्या रोगातड्डाःरोगाः-व्याधयः, ते च ते आतड्काश्च कृच्छजीवितकारित्वात् रोगातकाः कष्टसाध्या व्याधयः सर्पमण्डूकादिदशनरूपाः, अथवा रोगाः-रक्तविकारपामादिरूपाः, आतङ्काः-सघोघातिनः सर्पादिविषयोनिहृदयशूलादयः, रोगाश्च आतङ्काश्चेति रोगातकाः, तेभ्योऽन्यत्र निर्ग्रन्थनिर्ग्रन्थीनां मोकं परस्परमापातुम् , आचमितुं वा न कल्पते, अनेनायातम्-गाढागाढरोगातङ्ककारणे कल्पते, तदेवम्-सादिविषं पामादिरक्तविकाररोगश्च नरमूत्रेण शाम्यति, तदुक्तं भावप्रकाशे "नरमूत्र गरं हन्ति, सेवितं तद् रसायनम् । रक्तपामाहरं तीक्ष्णं, सक्षारलवणं स्मृतम् ॥ गोऽजाऽविमहिषीणां तु, स्त्रीणां मूत्रं प्रशस्यते । खरोष्ट्रेभनराश्वानां, पुंसां मृत्रं हितं स्मृतम् ॥ सू० ४६ ॥" पूर्व मोकसूत्रं प्ररूपितम्, पानप्रसगात् पर्युषिताहारविषयं सूत्रमाह-'नो कप्पई' इति । सूत्रम्-नो कप्पइ निग्गंधाण वा निग्गंधीण वा परियासियं भोयणजायं जाव तयप्पमाणमेत्तं वा भूइप्पमाणमेत्तं वा तोयर्विदुप्पमाणमेत्तं वा आहार आहरित्तए नन्नत्थ गाढागाढेहिं रोगायंकेहिं ॥ सू० ४७ ॥ छाया-नो कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा परिवासितं भोजनजातं यावत् त्वचाप्रमाणमात्रमपि भूतिप्रमाणमात्रमपि तोयविन्दुप्रमाणमात्रमपि आहारम् आहर्तम्, नान्यत्र गाढागाढेभ्यः रोगातङ्केभ्यः ॥ सू० ४७ ।।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy