________________
पूर्णिभाध्यायचूरी उ०-५ सू०४१-४६ साधुसाध्वीनां पादकेसरिकादिग्रहणविधिः १३७
___ चूर्णी-'नो कप्पई' इति । नो कल्पते निम्रन्थीनाम् सवृन्तकम्-वृन्तसहितं नाल-- युक्तम् अलावु-तुम्बिकाफलपात्रम् धारयितुम् संग्रहीतुम् , परिहर्तुम् पानादौ उपभोक्तुम् । सविपाणपीठफलकवदत्रापि बहिनिस्सृतो कारावलोकनेन भुक्तभोगिनीनामभुक्तभोगिनीनां निर्ग्रन्थीनां पूर्वोक्तस्मृतिकरणकौतुकादिदोषसंभवात् ॥सू० ४० ॥ निम्रन्थविषयकं विघिसूत्रमाह-कप्पइ' इति । कल्पते निर्ग्रन्थानां तदेव सवृन्तकं तुम्बीपात्रं धारयितुं वा परिहत्ते वा, निर्ग्रन्थानां पूर्वोक्तदोषासंभवात् ॥ सू० ४१॥
पूर्व सवृन्तकाऽलाबुपात्रधारणे निषेधसूत्रं विधिसूत्रं च निर्ग्रन्थीनिम्रन्थानां क्रमेण प्रतिपादितम् , सम्प्रति निम्रन्थीनिम्रन्थद्वयमाश्रित्य तदेव सूत्रद्वयमाह-'नो कप्पई' 'कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथीणं सवेंटियं पायकेसरियं 'धारित्तए वा परिहरित्तए वा ॥ सू० ४२ ॥ कप्पइ निग्गंथाणं सवेंटियं पायकेसरियं धारित्तए वा परिहरित्तए वा ॥ सू० ४३ ।।
छाया-नो कल्पते निर्ग्रन्थीनां सवृन्तिकां पात्रकेसरिकां धारयितुं वा परिहत्तुं वा ॥ सू० ४२ ॥ कल्पते निर्ग्रन्थानां सवृन्तिकां पात्रकेसरिकां धारयितुं वा परिहर्नु वा ॥ सू० ॥ ४३॥
चूर्णी—'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थीनां सवृन्तिकां वृन्तसहितां लम्बाकारेण वृन्तवद् वृन्तम् उपरिलम्बदण्डिकारूपं, तेन सहितां सवृन्तिकाम् पात्रकेसरिकाम्-पात्रप्रोञ्छनार्थ प्रमार्जनिकां लम्बदण्डिकाप्रतिबद्धदशिकामयी प्रमार्जनिकां धारयितुम् उपकरणवुद्ध्या पार्श्वे स्थापयितुम् , परिहर्तुम्-परिभोक्तुं न कल्पते ॥ सू० ४२ ॥ निर्ग्रन्थानधिकृत्य विधिसूत्रमाह-कप्पई' इति, कल्पते निम्रन्थानां सवृन्तिकां पात्रकेसरिकां पात्रप्रोञ्छनप्रमार्जनिकां धारयितुं वा परिहत्तुं वा कल्पते ॥ सू० ४३ ॥
पूर्व पात्रकेसरिकाविषयं सूत्रद्वयं प्रतिपादितम् , सम्प्रति दारुदण्डकपादप्रोञ्छनविषयं तदेव सूत्रद्वयमाह-'नो कप्पइ' 'कप्पइ' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथीणं दारुदंडयं पायपुंछणं धारित्तए वा परिहरित्तए वा ॥ सू० ४४॥ कप्पइ निग्गंथाणं दारुदंडय पायपुंछणं धारित्तए वा परिहरित्तए वा ॥ सू० ४५॥
छाया-नो कल्पते निर्ग्रन्थीनां दारुदण्डकं पादप्रोञ्छनकं धारयितुं वा परिहत्त ॥ सू० ४४॥ कल्पते निर्ग्रन्थानां दारुदण्डकं पादप्रोञ्छनकं धारयितुं वा परिहत्त वा ॥ सू० ४५॥
चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्थीनां दारुदण्डक दारुमयदण्डिकायुक्तं पादप्रोञ्छनकं दारुमयदण्डिकाया अग्रभागे ओर्णिका दशिका बध्यन्ते तादृशं पादप्रोञ्छनार्थ
१८