________________
१३६
पृहत्कल्पसूत्रे
स्थातुं निषत्तुं वा नोचितमिति ॥ सू० ३६ ॥ सम्प्रति निम्रन्थविषये विघिसूत्रमाह-'कप्पई' इति । कल्पते निम्रन्थानां सावश्रये सावष्टम्मे आसने स्थातुं निषत्तुं वा , यतो ग्लानत्वादिकारणान्निरालम्बमुपवेष्टुमशक्तानां निम्रन्थानां सावष्टम्भमासनं कल्पते, निर्ग्रन्थीनां सर्वथा न कल्पते इति भावः ।। सू० ३७ ॥
पूर्व सावष्टम्भासनविषये निर्ग्रन्थीनां निपेधसूत्रं, निर्ग्रन्थानां च विधिसूत्रमुक्तम् , सम्प्रति सविषाणपीठफलकविषये तदेवाह-'नो कप्पइ' 'कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निगंथीणं सविसाणंसि पीटंसि वा फलगंसि वा चिट्ठित्तए वा निसीइत्तए वा ॥ सू० ३८॥ कप्पइ निग्गंथाणं सविसाणंसि पीहँसि वा फलगंसि वा चिट्टित्तए वा निसीइत्तए वा ॥ सू० ३९ ॥
छाया-नो कल्पते निर्ग्रन्थीनां सविपाणे पीठे वा फलके वा स्थातुं वा निषत्तुं वा ॥ सु० ॥ ३८ ॥ कल्पते निर्ग्रन्थानां सविपाणे पीठे वा फलके वा स्थातुं वा नियतु वा ॥ सू० ॥ ३९ ॥
चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्थीनां सविषाणे-विषाणं शृङ्गम् , विषाणमिव विषाणं शृङ्गाकार उपर्युत्थितः काष्ठविशेषः, तेन सहितं सविषाणम्-तस्मिन् सविषाणे सशृङ्गे पीठे काष्ठनिमितासनविशेषे, फलके वा शयनपट्टके स्थातुम् ऊर्ध्वस्थानेन निपत्तुम्-उपवेष्टुं न कल्पते इति सम्बन्धः । यस्य पीठस्य फलकस्य वा उपरि शोभार्थ शृङ्गाकारम् ऊर्ध्वलम्बकाष्ठं निर्मितं भवेत् तादृशे पीठे फलके वा स्थाननिषीदनकरणे ऊर्ध्वकाष्ठरूपतदाकारावलोकनेन उदीर्णमोहत्वेन भुक्तभोगिनीनां निम्रन्थीनां पादकर्मस्मृतिकरणादिदोषसंभवात्, अभुक्तभोगिनीनां च कौतुकसंभवात् निम्रन्थीनां सविषाणपीठफलकादौ स्थानदि कत्तुं नोचितमिति भावः ॥ सू० ३८ ॥ विधिमाश्रित्य निर्ग्रन्थसूत्रमाह-कप्पइ' इति । पूर्वोक्ते सविषाणे पीठे वा फलके वा स्थातुं निषत्तुं वा निम्रन्थानां कल्पते, श्रमणानां पूर्वोक्तदोषानापत्तेः ॥ सू० ३९ ॥
पूर्व सविषाणपीठफलकविषये निर्ग्रन्थीनां निषेधसूत्रम् , निर्ग्रन्थानां च विधिसूत्रं प्रतिपादितम् , सम्प्रति सवृन्तकालावुविषये तदेव सूत्रद्वयमाह-'नो कप्पइ' 'कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथीणं सवेंटगं लाउयं धारित्तए वा परिहरित्तए वा ॥सू०४०॥ कप्पइ निग्गंथाणं सर्वेटगं लाउयं धारित्तए वा परिहरित्तए वा ॥ सू०४१॥
छाया-नो कल्पते निर्ग्रन्थीनां सवृन्तकम् अलावु धारयितुं वा परिहत्तं वा ॥ सू०४० ॥ कल्पते निम्रन्थानां सवृन्तकम् अलायु धारयितुं वा परिहत्ते वा ॥ सू०४१ ॥