Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 496
________________ चूर्णि भाग्यावचूरी उ० ५ ० ४७-४९ पर्युषिताहारादिनिषेधः १३९ " चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितम् संगृहीतं प्रथमप्रहरे आनीतं चतुर्थप्रहर प्राप्त भोजनजातम् अशनादिचतुर्विधं यावत् - न्यूनान्यूनम् तत् कियदित्याह - ' तयप्पमाणमेत्तं वा' इति, त्वक्प्रमाणमात्रमपि तिलतुषत्रिभागमात्रमपि, एतच्चाशनस्य घटते । भूतिप्रमाणमात्रमपि, भूतिः - भस्म भूतिशब्देन भस्म चप्पु - टिका गृह्यते तेन भूतिचप्पुटिकामात्रमपि इत्यर्थो बोध्यः संयोजिताङ्गुष्टतर्जनीभ्यां गृहीतं द्रव्यं भूति प्रमाणमात्र कथ्यते तच्च सक्तुकादीनां शुष्कचूर्णद्रव्यादीनां च घटते । तोयबिन्दुप्रमाणमात्रमपि पानकद्रव्यस्य विन्दुप्रमितमपि परिवासितं प्रथमप्रहरस्थापितस्य चतुर्थ प्रहरः प्राप्तः, तादृशम् आहारम् - किमपि भोज्यपेयपदार्थजातम् आहर्तुम् - भोक्तुं न कल्पते इति । यद्वा परिवासितं रजन्यां स्थापितं पूर्वोकप्रमाणमात्रमपि आहारं भोक्तुं न कल्पते । रजन्यां स्थापितवस्तुमात्रस्य मुनीनां परिभोगो न कल्पते, तस्य सन्निधिसंचयदोषापत्तेः, सन्निधि - संचये साधुत्वमपि नश्यति, उक्तञ्च दशवैकालिकसूत्रे षष्ठाध्ययने"लोहस्सेसणुप्फासे, मन्ने अन्नयरामवि । जे सिया संनिहिकामे, गिही पव्चइए न से || गा० १९ ॥ " लोभस्य एष अनुस्पर्शः, मन्ये अन्यतरोऽपि । यः स्यात् संनिधिकामः गृही प्रव्रजितो न सः ॥ गा० १९ ॥ इतिच्छाया ॥ संक्षेपार्थः - 'मन्ये' इति भगवद्वाक्यम्, मन्ये अहं निश्चिनोमि अन्यतरोsपि बहूनां मध्ये एकः एषः लोभस्य अनुस्पर्शः प्रभावः, लोभस्य बहूनां प्रभावाणां मध्ये एष पूर्वोक्तः संनिधिरूप एकः प्रभावोऽस्ति, एवमहं मन्ये, अतः यः संनिधिकामः-संनिधिवाञ्छकः स्यात् सः गृही–गृहस्थ एव मन्तव्यः न तु सः प्रव्रजितः - साधुरिति । इत्येवं भगवद्वचनात् परिवासितमाहारजातं निर्ग्रन्थनिर्ग्रन्थीनां भोक्तुं न कल्पते इति भावः । किं सर्वथा न कल्पते ? इत्यपवादमाह–‘नन्नत्थ' इत्यादि, नान्यत्र - अन्यत्र न, केभ्यः ? इत्याह- गाढागाढेभ्यो रोगात - केभ्यः गाढागाढरोगातङ्कान् विहाय, अन्यत्र न कल्पते इत्यर्थः ॥ सू०४७॥ पूर्वं परिवासिताहारनिषेधसूत्रं प्रोक्तम्, सम्प्रति परिवासितालेपननिषेधसूत्रं प्रतिपादयति'नो कप' इत्यादि । सूत्रम् - नो कपड़े निग्गंथाण वा निग्गंथीण वा परिवासिएणं आलेवणजाएणं आर्लिपित्तए वा विलिंपित्तए वा, नन्नत्थ गाढागाढेहिं रोगायंकेहिं ॥ सू० ४८ ॥ छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन आलेपनजातेन आलेपयितु वा विलेपयितुं वा, नान्यत्रं गाढागाढेभ्यः रोगातङ्केभ्यः ॥ सू० ४८ ॥ चूर्णी - 'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीना वा परिवासितेनप्रथम प्रहरगृहीतचतुर्थ प्रहर प्राप्तेन आलेपनजातेन केनापि लोधादिनिर्मितालेपनेन आलेपयितुं

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536