Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 494
________________ पूर्णिभाध्यायचूरी उ०-५ सू०४१-४६ साधुसाध्वीनां पादकेसरिकादिग्रहणविधिः १३७ ___ चूर्णी-'नो कप्पई' इति । नो कल्पते निम्रन्थीनाम् सवृन्तकम्-वृन्तसहितं नाल-- युक्तम् अलावु-तुम्बिकाफलपात्रम् धारयितुम् संग्रहीतुम् , परिहर्तुम् पानादौ उपभोक्तुम् । सविपाणपीठफलकवदत्रापि बहिनिस्सृतो कारावलोकनेन भुक्तभोगिनीनामभुक्तभोगिनीनां निर्ग्रन्थीनां पूर्वोक्तस्मृतिकरणकौतुकादिदोषसंभवात् ॥सू० ४० ॥ निम्रन्थविषयकं विघिसूत्रमाह-कप्पइ' इति । कल्पते निर्ग्रन्थानां तदेव सवृन्तकं तुम्बीपात्रं धारयितुं वा परिहत्ते वा, निर्ग्रन्थानां पूर्वोक्तदोषासंभवात् ॥ सू० ४१॥ पूर्व सवृन्तकाऽलाबुपात्रधारणे निषेधसूत्रं विधिसूत्रं च निर्ग्रन्थीनिम्रन्थानां क्रमेण प्रतिपादितम् , सम्प्रति निम्रन्थीनिम्रन्थद्वयमाश्रित्य तदेव सूत्रद्वयमाह-'नो कप्पई' 'कप्पई' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथीणं सवेंटियं पायकेसरियं 'धारित्तए वा परिहरित्तए वा ॥ सू० ४२ ॥ कप्पइ निग्गंथाणं सवेंटियं पायकेसरियं धारित्तए वा परिहरित्तए वा ॥ सू० ४३ ।। छाया-नो कल्पते निर्ग्रन्थीनां सवृन्तिकां पात्रकेसरिकां धारयितुं वा परिहत्तुं वा ॥ सू० ४२ ॥ कल्पते निर्ग्रन्थानां सवृन्तिकां पात्रकेसरिकां धारयितुं वा परिहर्नु वा ॥ सू० ॥ ४३॥ चूर्णी—'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थीनां सवृन्तिकां वृन्तसहितां लम्बाकारेण वृन्तवद् वृन्तम् उपरिलम्बदण्डिकारूपं, तेन सहितां सवृन्तिकाम् पात्रकेसरिकाम्-पात्रप्रोञ्छनार्थ प्रमार्जनिकां लम्बदण्डिकाप्रतिबद्धदशिकामयी प्रमार्जनिकां धारयितुम् उपकरणवुद्ध्या पार्श्वे स्थापयितुम् , परिहर्तुम्-परिभोक्तुं न कल्पते ॥ सू० ४२ ॥ निर्ग्रन्थानधिकृत्य विधिसूत्रमाह-कप्पई' इति, कल्पते निम्रन्थानां सवृन्तिकां पात्रकेसरिकां पात्रप्रोञ्छनप्रमार्जनिकां धारयितुं वा परिहत्तुं वा कल्पते ॥ सू० ४३ ॥ पूर्व पात्रकेसरिकाविषयं सूत्रद्वयं प्रतिपादितम् , सम्प्रति दारुदण्डकपादप्रोञ्छनविषयं तदेव सूत्रद्वयमाह-'नो कप्पइ' 'कप्पइ' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथीणं दारुदंडयं पायपुंछणं धारित्तए वा परिहरित्तए वा ॥ सू० ४४॥ कप्पइ निग्गंथाणं दारुदंडय पायपुंछणं धारित्तए वा परिहरित्तए वा ॥ सू० ४५॥ छाया-नो कल्पते निर्ग्रन्थीनां दारुदण्डकं पादप्रोञ्छनकं धारयितुं वा परिहत्त ॥ सू० ४४॥ कल्पते निर्ग्रन्थानां दारुदण्डकं पादप्रोञ्छनकं धारयितुं वा परिहत्त वा ॥ सू० ४५॥ चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्थीनां दारुदण्डक दारुमयदण्डिकायुक्तं पादप्रोञ्छनकं दारुमयदण्डिकाया अग्रभागे ओर्णिका दशिका बध्यन्ते तादृशं पादप्रोञ्छनार्थ १८

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536