Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 492
________________ चूर्णिभाष्यावचूरी उ. ५ सू० ३४-३९ निर्ग्रन्थीनां स्थाननिषीदनादिमर्यादा १३५ छाया--नो कल्पते निर्ग्रन्थीनाम् आकुञ्चनपट्टकं धारयितुं वा परिहत्तुं वा ।सू०३४॥ चूणीं-'नो कप्पई' इति । नो कल्पते निम्रन्थीनाम् आकुश्चनपट्टकं, आकुश्चनं-संकोचनम् अधःशरीरस्य संकोचनं तन्निमित्तं यत् पट्टकं वस्त्रम् पर्यस्तिकापट्टकमित्यर्थः, पर्यस्तिकाकरणनिमित्तं यत् पट्टकं वस्त्रं तत् निर्ग्रन्थीनां धारयितुं पार्श्वे स्थापयितुम् , परिहर्तुम्-परिभोक्तुं न कल्पते । पर्यस्तिकां कुर्वाणां साध्वीं दृष्ट्वा लोको वदति-अहो कीदृशोऽस्या गर्वः या पर्यस्तिकां बद्ध्वा समुपविशति । पर्यस्तिकां कुर्वाणा अपावृताऽपि भवेत् तेन ब्रह्मचर्यवतमङ्गसंभवः लोकापवादो वा भवेत् । माकुञ्चनपट्टकं तासाम् अनुपधिः, य उपकारे वर्त्तते स उपधिरुच्यते, अन्यः अनुपधिः, तच्च तासामुपकारे नायातीति कृत्वा अनुपधिः । अनुपधिभूतस्योपकरणस्य धारणे तीर्थकृदाज्ञाभङ्गः । तत्प्रत्युपेक्षणादौ सूत्रार्थस्वाध्यायहानिर्भवेत् तस्मात् आकुश्चनपट्टकं साध्वीनां नानुज्ञातम् ॥ सू० ३४ ॥ पूर्व निर्ग्रन्थीनामाकुश्चनपट्टकं निषिद्धम् , तत् निर्ग्रन्थानां कल्पते इति निम्रन्थसूत्रमाह"कप्पइ' इत्यादि । सूत्रम्-कप्पइ निग्गंथाणं आकुंचणपट्टगं धारित्तए वा परिहरित्तए वा ॥सू०३५॥ छाया- कल्पते निर्ग्रन्थानाम् आकुञ्चनपट्टकं धारयितुं वा परिहर्त वा । सु०३५ । चर्णी_कप्पड' इति । कल्पते निर्ग्रन्थानां श्रमणानाम् आकुञ्चनपट्टकं पर्यस्तिकापट्टकं पर्यस्तिकाकरणाथै वस्त्रं धारयितुं-संग्रहीतु परिहत्तु परिभोक्तुं कल्पते, श्रमणानां पूर्वोक्तदोषानापत्तेः, किन्तु पर्यायज्येष्ठपुरत आकुञ्जनपट्टासनेन स्थातुम् न कल्पते ॥ सू० ३५ ।। पूर्व निर्ग्रन्थीनां निर्ग्रन्थानां पर्यस्तिकापट्टधारणे निषेधो विधिश्च प्रदर्शितः, सम्प्रति उभयेषां सावष्टम्भासने उपवेशनस्य निषेधं विधिं च प्रदर्शयितुमाह-'नो कप्पइ' 'कप्पई' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथीणं सावस्सयंसि आसणंसि चिट्ठित्तए वा निसीइत्तए वा ॥ सू० ३६॥ कप्पइ निग्गंथाणं सावस्सयंसि आसणंसि चिद्वित्तए वा निसीइत्तए वा ।। सू० ३७ ॥ छाया-नो कल्पते निग्रन्थीनां सावधये आसने स्थातुं वा निषत्तुं वा ॥सू० ३६॥ कल्पते निर्ग्रन्थानां सावधये आसने स्थातुं वा निषत्तुं वा ॥ सू० ॥ ३७॥ चर्णी_नो कप्पड' इति । नो कल्पते निम्रन्थीनां सावश्रये-सावश्रयं नाम यस्यासनस्य पृष्ठतोऽवष्टम्भो भवति तादृशे सावष्टम्भे आसने स्थातुम् ऊवस्थानेन स्थिति कर्त्तम् , निषत्तुं-तदुपरि उपवेष्टुं न कल्पते इति सम्बन्धः, एतादृशासने उपविष्टानां श्रमणीनां पूर्वोक्तो गर्वः मिद्धयति, स्त्रीशरीरत्वेन तरुणानां मोहजनकत्वं वा भवति तस्मात् निग्रन्थीनां सावष्टम्भासने

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536