________________
चूर्णिभाष्यावचूरी उ०५ सू० ५२
निर्ग्रन्थ्याः पुलाकभकाहारविधिः १४३
wwwwwwwwwwwww
छाया-निर्ग्रन्थ्या च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टया अन्यतरत् पुलाकभक्त प्रतिगृहीतं स्यात् , सा च संस्तरेत् कल्पते तस्याः तद्दिवसं तेनैव भकार्थेन पर्युषितुम् , नो तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपातप्रत्ययेन प्रवेष्टुम् , सा च नो संस्तरेत् एवं तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपातप्रत्ययेन प्रवेष्टुम् ॥ सू० ५२ ॥
॥ पञ्चमोद्देशः समाप्तः ॥५॥
चूर्णी-'निग्गंथीए य' इति । निर्ग्रन्थ्याश्च साध्व्याः गाथापतिकुलं गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन अनुप्रविष्टया-प्रवेशं कृतवत्या यदि अन्यतरत्-बहूनां मध्यादेकम् , पुलाकं त्रिविधं भवति-धान्यपुलाकम् , गन्धपुलाकम् , रसपुलाकं चेति, तत्र धान्यपुलाकं वल्लादि, गन्धपुलाकम्-एलालवड्गजातिफलादीनि यानि उत्कटगन्धानि द्रव्याणि, तद्बहुलं भक्तम्, रसपुलाकम् क्षीर-द्राक्षा-खजूरादिरसरूपम् , एषां त्रयाणां पुलाकानां मध्याद् एकतरत् पुलाकभक्तम्, पुलाकम् असारमुच्यते यत आहारितानि एतानि त्रीण्यपि पुलाकानि निम्रन्थी संयमसाररहितां कुर्वन्ति प्रवचनं वा निस्सारं कुर्वन्ति ततस्तानि पुलाकानि प्रोच्यन्ते, एषां मदजनकस्वभावत्वात् । एतानि पुलाकानि निर्ग्रन्थीं मदविह्वलां कुर्वन्ति तेन सा संयमसाररहिता भवति । तेषां कदाचिद् ग्रहणे तद्विधिं प्रदर्शयति-तत् पूर्वोक्तं पुलाकमक्तं कदाचित्-अनाभोगादिकारणात् प्रतिगृहीतं स्वीकृतं स्यात् तदा यदि सा च निग्रन्थी संस्तरेत् तेन प्रतिगृहीतेन पुलाकभक्तेन निर्वाहं कुर्यात् निर्वोढुं समर्था भवेत् तदा कल्पते तस्याः तं दिवस तेनैव पूर्वानीतेनैव भक्तार्थेन पुलाकभक्तेन पर्युषितुम्-तं दिवस व्यत्येतं कल्पते किन्तु नो-नैव तस्याः कल्पते द्वितीयमपि जिह्वालौल्येन द्वितीयवारमपि गाथापतिकुलं पिण्डपातप्रत्ययेन तद्ग्रहणवाञ्छया प्रवेष्टुम् । अथ सा च निर्ग्रन्थी कदाचित् तपश्चरणग्लानत्वादिना बुभुक्षाप्राचुर्यप्रसङ्गात् पूर्वानीतेन पुलाकभक्तेन भुक्तेन नो संस्तरेत् क्षुधापरीषहसहनसामर्थ्याभावात त दिवसं व्यत्ये समर्था न भवेत् तदवस्थायां तस्या निम्रन्थ्याः कल्पते द्वितीयमपि वारं गाथापतिकुलं-गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन प्रवेष्टुं गृहस्थगृहे प्रवेश कत्तुं कल्पते, तदिवसनिर्वाहसामर्थ्ये सति द्वितीयवारं भिक्षार्थं न गच्छेदिति भावः । एकवार. गृहीतपुलाकभोजनेन यथाशक्यनिर्वाहसामर्थ्य सति जिह्वालोलुपतया पुनरपि द्वितीयवारं भिक्षार्थ गृहस्थगृहे गच्छेत् तदा निर्ग्रन्ध्या आज्ञाभगादयो दोषा भवन्ति, सयमात्मविराधना च भवेत् , तत्र स्त्रियाः सुकुमालप्रकृतित्वेन धान्यपुलाके भुक्ते उदरे वातप्रकोपः संजायते, गन्धपुलाके भुक्ते