Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चूर्णिभाष्यावचूरी उ० ४ सू० ३४-३६ तृणादिमयोपाश्रयनिवासविधिः ११७ न शक्यतेऽतस्तत्रोत्तरोतुं निषिद्धम् । तत्र ऋतुबद्धे काले मासकल्पे अपूर्णे वैयावृत्त्यादिकारणे सति यतनया मासमध्ये द्वित्रिकृत्वो गन्तुमागन्तुं कल्पते किन्तु स पूर्वोक्त उदकलेपो वर्षमध्ये नववारं न भवेदिति विवेकः कर्त्तव्यः यतो वर्षमध्ये नववारोदकलेपकरणेन निर्ग्रन्थः शवलदोषमाग् भवतीति बोध्यम् ।। सू० ३३ ॥
पूर्व श्रमणानामध्वनि विधिः प्रतिपादितः, सम्प्रति वसतिविषयविधि प्रतिपादयितु. माह-'से तणेसु वा' इत्यादि ।
सूत्रम्-से तणेसु वा तणपुजेसु वा पलालेसु वा पलालपुंजेसु वा अप्पडेस अप्यपाणेसु अप्पवीएस अप्पहरिएमु अप्पुस्सेस अप्पुत्तिंग-पणग-दगमट्टिय-मक्कडगसंताणगेसु अहे सवणमायाए नो कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उवस्सए हेमंतगिम्हास वत्थए ॥ सू० ३४ ॥
छाया-अथ तृणेषु वा तृणपुजेषु वा पलालेषु वा पलालपुजेषु वा अल्पाण्डेषु अल्पप्राणेषु अल्पवीजेसु अल्पहरितेषु अल्पावश्यायेषु अल्पोत्तिङ्ग-पनक-दकमृत्तिका-मर्कटसन्तानकेषु अधः श्रवणमात्रया नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तथाप्रकारे उपाश्रये हेमन्तप्रीमेपु वस्तुम् ॥ सू० ३४ ॥
चूर्णी-'से तणेसु वा' इति । 'से' इति अथ-तृणेषु वा शुष्कघासादिषु, तृणपुञ्जेषु वा शुष्कघासादिसमुदायेषु, पलालेषु वा-शाल्यादिपलालेषु, पलालपुञ्जेषु वा शाल्यादिपलालसमूहेष, कीदृशेषु तेषु १ इत्याह-अल्पाण्डेषु अल्पशब्दस्यात्राभावार्थकतया पिपीलिकादीनामण्डकादिरहितेषु, अल्पप्राणेषु-द्वीन्द्रियादिप्राणिवर्जितेषु, अल्पबीजेषु-अनङ्कुरितशाल्यादिबीजरहितेषु, अल्पहरितेषु-अङ्कुरितोद्भिन्नबीजरूपहरितकायवर्जितेषु, अल्पावश्यायेषु-अवश्यायो हिमकणस्तदहितेषु, अल्पोत्तिङ्ग-पनक-दकमृत्तिका-मर्कटसन्तानकेषु, तत्र उत्तिङ्गः-कीटिकानगरम् , पनक.पञ्चवर्णः साङ्करोऽनङ्कुरो वाऽनन्तवनस्पतिकायविशेषलक्षण:-'लीलण-फूलण' इति भाषाप्रसिद्धः दकमृत्तिका-सचित्तो मिश्रो वा कर्दमः, मर्कटः कोलिकलक्षण. 'मकडी' इति भाषाप्रसिद्धः, तेषां सन्तानकम् जालकम् तद्रहितेषु अपि तृणादिषु इति पूर्वेण सम्बन्धः, अधः श्रवणमात्रया सूत्रे आर्षत्त्वात्पञ्चम्यर्थे तृतीया तेन श्रवणमात्रात् कर्णद्वयप्रमाणादधस्ताद् वर्तमानेषु तृणादिषु सत्सु कर्णप्रमाणादधो यत्र छादनतृणादीनि भवन्तीत्यर्थः, तथाप्रकारे तथाविधे उपाश्रये नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा हेमन्तग्रीष्मेषु-हेमन्तादिग्रीष्मपर्यन्तेषु ऋतुबद्धेषु अष्टसु मासेषु वस्तुम् अवस्थातुं न कल्पते इति पूर्वेण सम्बन्धः, तथा च मण्ड-प्राण-बीज-हस्तिकाया-वश्यायोत्तिङ्गादिसचित्तवस्तुवर्जितत्वात् शुद्धेऽपि उपाश्रये यदि मस्तकादधस्तात् आच्छादनतृणादीनि भवेयुस्तदा तस्मिन्नुपाश्रये ऋतुबद्धकालेषु निम्रन्थनिर्ग्रन्थीनां वस्तुं न कल्पते इति भावः ॥ स० ३४॥
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536