Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 477
________________ वृहत्कल्पसूत्रे पूर्व मैथुनप्रतिसेवनप्राप्तस्य प्रायश्चित्तं प्रोक्तम् , तत्प्रायश्चित्ते न्यूनाधिकाऽऽरोपणायां दीयमानायां निर्ग्रन्थोऽधिकरणं कृत्वाऽन्यं गणं प्रविशेत्तदा तैरन्यगणस्थविरैः किं कर्त्तव्यमिति तद्विधिमाह-'भिक्खू य' इत्यादि । सूत्रम्-भिक्खू य अहिगरणं कटुतं अहिगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उपसंपज्जित्ता णं विहरित्तए, कप्पइ तस्स पंचराइंदियं छेयं कटु परिनिव्वविय परिनिव्वविय दोच्चंपि तमेव गणं पडिणिज्जाएयव्वे सिया जहा वा तस्स गणस्स पत्तियं सिया ॥ सू० ५॥ छाया-भिक्षुश्च अधिकरणं कृत्वा तदधिकरणम् अव्यवशमय्य इच्छेद अन्यं गणम् उपसंपद्य विहर्तुम् , कल्पते तस्य पञ्चरात्रिन्दिवं छेदं कृत्वा परिनिर्वाप्य परिनिर्वाप्य द्वितीयमपि तमेव गणं पडिनिर्यातव्यः स्यात् यथा वा तस्य गणस्य प्रीतिकं (प्रत्ययिकं ) स्यात् ॥ सू० ५॥ चूर्णी-'भिक्खू य' इति । भिक्षुश्च श्रमणः अधिकरणम्-प्रायश्चित्तदाने न्यूनाधिकतायां कलहं कृत्वा, तद् अधिकरणम् अव्यवशमय्य क्षमापनादिना शान्तं चाकृत्वा इच्छेत् अन्यं गणं गणान्तरम् उपसंपद्य-स्वीकृत्य विहर्तुम् वाञ्छेत् अन्यं गणं प्रविशेदिति भावः, एवं स्थितौ कल्पते अन्यगणस्थविराणां तस्य गच्छान्तरादागतस्य भिक्षोः पञ्चरात्रिन्दिवम्-पञ्चाहोरात्रकं छेदं कृत्वाछेदनामकम् प्रायश्चित्तं दत्त्वा परिनिर्वाप्य परिनिर्वाप्य क्रोधादिकषायानलसंतप्तं तं मृदुमधुरोप देशवचनसलिलसेचनेन तत्कषायानलं भूयो भूयो विध्यापयित्वा तं सर्वथा शोतलं संपाद्य द्वितीय__ मपि द्वितीयवारमपि पुनरपि तमेव गणं यस्माद् गणाद् आगतस्तमेव तदीयगणं प्रति स श्रमणः परिनिर्यातव्यः प्रापयितव्यः नेतव्यः स्यात् । किमर्थमित्याह-यथा वा-येन कारणेन तस्य यस्माद् गन्छाद् निर्गतस्तस्य तदीयगच्छस्य 'पत्तियं' प्रीतिकं प्रसन्नता, प्रत्ययिकं वा प्रत्ययो विश्वासः तदेव प्रत्ययिकं वैश्वासिकं वस्तु स्यात् तथा विधेयमिति भावः ॥ सू० ५ ॥ पूर्वसूत्रे अधिकरणस्य प्ररूपितत्वेन तदधिकरणं कृत्वाऽनुपशमं प्राप्त. श्रमणो गच्छान्तरं गच्छन् कथञ्चिदुपशमित. पुनस्तमेव गच्छं प्रत्यागच्छन् मार्गे संस्तरणेऽसंस्तरणे वा कदाचिद् माहारं गृह्णीयादतो रात्रिभोजननिषेधकं सूत्रचतुष्टयं व्याख्यातुं तावत् प्रथमं सूत्रं व्याचष्टे-'भिक्खू य' इत्यादि। - सूत्रम् --भिक्खू य उग्गयवित्तिए अणत्थमियसंकप्पे संथडिए णिव्यितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे अह पच्छा जाणिज्जा-अणुग्गए सूरिए, अत्यमिए वा जं च आसयंसि जं च पाणिसि जं च पडिग्गहे तं विगिचमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536