________________
वृहत्कल्पसूत्रे
पूर्व मैथुनप्रतिसेवनप्राप्तस्य प्रायश्चित्तं प्रोक्तम् , तत्प्रायश्चित्ते न्यूनाधिकाऽऽरोपणायां दीयमानायां निर्ग्रन्थोऽधिकरणं कृत्वाऽन्यं गणं प्रविशेत्तदा तैरन्यगणस्थविरैः किं कर्त्तव्यमिति तद्विधिमाह-'भिक्खू य' इत्यादि ।
सूत्रम्-भिक्खू य अहिगरणं कटुतं अहिगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उपसंपज्जित्ता णं विहरित्तए, कप्पइ तस्स पंचराइंदियं छेयं कटु परिनिव्वविय परिनिव्वविय दोच्चंपि तमेव गणं पडिणिज्जाएयव्वे सिया जहा वा तस्स गणस्स पत्तियं सिया ॥ सू० ५॥
छाया-भिक्षुश्च अधिकरणं कृत्वा तदधिकरणम् अव्यवशमय्य इच्छेद अन्यं गणम् उपसंपद्य विहर्तुम् , कल्पते तस्य पञ्चरात्रिन्दिवं छेदं कृत्वा परिनिर्वाप्य परिनिर्वाप्य द्वितीयमपि तमेव गणं पडिनिर्यातव्यः स्यात् यथा वा तस्य गणस्य प्रीतिकं (प्रत्ययिकं ) स्यात् ॥ सू० ५॥
चूर्णी-'भिक्खू य' इति । भिक्षुश्च श्रमणः अधिकरणम्-प्रायश्चित्तदाने न्यूनाधिकतायां कलहं कृत्वा, तद् अधिकरणम् अव्यवशमय्य क्षमापनादिना शान्तं चाकृत्वा इच्छेत् अन्यं गणं गणान्तरम् उपसंपद्य-स्वीकृत्य विहर्तुम् वाञ्छेत् अन्यं गणं प्रविशेदिति भावः, एवं स्थितौ कल्पते अन्यगणस्थविराणां तस्य गच्छान्तरादागतस्य भिक्षोः पञ्चरात्रिन्दिवम्-पञ्चाहोरात्रकं छेदं कृत्वाछेदनामकम् प्रायश्चित्तं दत्त्वा परिनिर्वाप्य परिनिर्वाप्य क्रोधादिकषायानलसंतप्तं तं मृदुमधुरोप
देशवचनसलिलसेचनेन तत्कषायानलं भूयो भूयो विध्यापयित्वा तं सर्वथा शोतलं संपाद्य द्वितीय__ मपि द्वितीयवारमपि पुनरपि तमेव गणं यस्माद् गणाद् आगतस्तमेव तदीयगणं प्रति स श्रमणः परिनिर्यातव्यः प्रापयितव्यः नेतव्यः स्यात् । किमर्थमित्याह-यथा वा-येन कारणेन तस्य यस्माद् गन्छाद् निर्गतस्तस्य तदीयगच्छस्य 'पत्तियं' प्रीतिकं प्रसन्नता, प्रत्ययिकं वा प्रत्ययो विश्वासः तदेव प्रत्ययिकं वैश्वासिकं वस्तु स्यात् तथा विधेयमिति भावः ॥ सू० ५ ॥
पूर्वसूत्रे अधिकरणस्य प्ररूपितत्वेन तदधिकरणं कृत्वाऽनुपशमं प्राप्त. श्रमणो गच्छान्तरं गच्छन् कथञ्चिदुपशमित. पुनस्तमेव गच्छं प्रत्यागच्छन् मार्गे संस्तरणेऽसंस्तरणे वा कदाचिद् माहारं गृह्णीयादतो रात्रिभोजननिषेधकं सूत्रचतुष्टयं व्याख्यातुं तावत् प्रथमं सूत्रं व्याचष्टे-'भिक्खू य' इत्यादि। - सूत्रम् --भिक्खू य उग्गयवित्तिए अणत्थमियसंकप्पे संथडिए णिव्यितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे अह पच्छा जाणिज्जा-अणुग्गए सूरिए, अत्यमिए वा जं च आसयंसि जं च पाणिसि जं च पडिग्गहे तं विगिचमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा