________________
चूर्णिताध्याय उ० ५ ० ६-८
उद्गतवृत्तिकभिक्षोराहारविधिः १२३
'जमाणे अण्णसिं वा दलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारद्वाणं अणुस्वाइयं || सू० ६-१ ॥
छाया - भिक्षुश्व उद्गतवृत्तिकः अनस्तमितसंकल्पः संस्तृतो निर्विचिकित्सः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य आहारम् अहरन् अथ पश्चादेवं जानीयात् - अनुगतः सूर्योऽस्तमितो वा, स यच्च आस्ये, यच्च पाणौ यच्च प्रतिग्रहे तद् विविश्ञ्चन् वा विशोधयन् वा नो अतिक्रामति, तद् आत्मना भुञ्जान अन्येभ्यो वा ददानो रात्रिभो - जनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू० ६ ॥
चूर्णी - ' भिक्खू य' इति । भिक्षुश्च, कीदृशः स ? उद्गतवृत्तिकः, उद्गते उदयं प्राप्ते सूर्ये वृत्तिः संयमयात्रा निर्वाहक भिक्षाकरणादिव्यवहारो यस्य स उद्गतवृत्तिकः, सूयोद्गमनान्तरमेव आहारादिक्रियाकारक', पुनश्च मनस्तमितसंकल्पः अनस्तमिते - अस्तमप्राप्ते सूर्ये सूर्यास्तमनात् प्रागेव संकल्पः आहारादिग्रहणनियमो यस्य स अनस्तमितसंकल्पः सूर्योदयानन्तरं सूर्यास्तगमनात्प्रागेव सूर्योपस्थितिकाले एव आहारादिग्रहणनियमवान् इत्यर्थः, अत एव संस्तृतः समर्थः दिवसभोजननियमवान्, एनादृशो भिक्षुः - श्रमणः निर्विचिकित्सः निर्गता अपगता विचिकित्सा - संयमात्मकचित्तवृत्तिविशेषरूपा यस्मात् स निर्विचिकित्सः अन्यदीपादिज्योतिः प्रकाशादिकारणवशात् सूर्यउदयं प्राप्तः, नास्तं गतो वा सूर्य, इत्येवं निश्चयमापन्नः सन् अशनं वा ४ अशनादिचतुविघमाहारम् प्रतिगृह्य - आदाय आहारमाहरन् भुञ्जानः भोक्तुमारब्धः, अथ यदि पश्चात् तदनन्तरं भोजनप्रारम्भानन्तरं जानीयात् अनुगतः सूर्यः नोदयं प्राप्तः सूर्यः, वा – अथवा व्यस्तमितो वा अस्तं प्राप्तो वा सूर्य., इत्येवं निश्चिनुयात् - जानीयात् तदा तादृश्यां परिस्थितौ स श्रमणः यच्च अशनादि आस्ये-मुखे कवलीकृत्य क्षिप्तं भवेत् यच्च अशनादिकं पाणौ - हस्ते मुखे प्रक्षेप्तुं गृहीतम्, यच्च अशनादि प्रतिग्रहे पात्रे स्थितं वर्तते तत् विविञ्चन् परिष्ठापयन् विशोधयन् पात्रं निर्लेपं कुर्वन् नो अतिक्रमति तीर्थकृदाज्ञां नोल्लङ्घयति, सर्वथैव तथाविधाशनादि परिष्ठापयन् पात्रं च निर्लेपं कुर्वन् स श्रमण आराधको भवति न विराधक इति । यदि पुनः तद् अशनादिकम् आत्मना ना स्वयं भुञ्जानः आहरन्, तथा अन्येभ्यो वा श्रमणादिभ्यो ददानो भवेत् तदा अभुक्ततदाहारोऽपि रात्रिभोजनप्रतिसेवनप्राप्त. रात्रिभोजनदोषापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोतीति ॥ सू० ६-१ ॥
*
पूर्वं संस्तृतस्य सूर्योदय - सूर्यानस्तमितविषये निर्विचिकित्सितस्य - निःशङ्कस्याहारविधि - रुक्तः, सम्प्रति पुनः संस्तृतस्यैव सूर्यानुद्गतास्तमितविषये विचिकित्सा समापन्नस्य - सशयापन्नस्य अशनादिविषये प्रायश्चित्तमाह – 'भिक्खू य' इत्यादि ।
सूत्रम् - भिक्खू य उम्गयवित्तिए अणत्थमियसंकप्पे संथडिए वितिमिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारे -