________________
છુ
वृहत्कल्पसूत्रे
माणे जाव अन्नेसिं वा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासिय परिहारट्ठाणं अणुग्धाइयं ॥ सू० ७-२ ॥
छाया -- भिक्षुश्च उद्वतवृत्तिकः अनस्तमितसंकल्पः संस्तृतः विचिकित्सासमापन्नः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य आहारम् अहरन् यावत् अन्येभ्यो वा ददानः रात्रिभोजनप्रति सेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घा - तिकम् ॥ सू० ७-२ ॥
चूर्णी - ' भिक्खु य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः पूर्वोक्तस्वरूपः, संस्तृतः-समर्थ' न तु ग्लानादिः स विचिकित्सासम्पन्नः 'किमुदितोऽनुदितो वा सूर्यः ?, यद्वा किमस्तं गतः सूर्योऽनस्तं गतो वा' इत्येवं संशयमारूढः सन् अशनं वा ४- - अशनादिचतुर्विधमाहारं प्रतिगृह्य-गृहस्थगृहादानीय आहारम् - तदानीतमाहारम् अहरन् भुञ्जानः 'जाव' इति यावत्, यावत्पदेन पूर्वोक्तः पाठोऽत्र संग्राह्यः, तथाहि - 'अह पुच्छा' इत्यादि, अथ पश्चात् जानीयात् अनुद्गतः सूर्यः अस्तमितो वा, तदा स यच्च आस्ये-मुखे, यच्च पाणौ - हस्ते, यच्च, प्रतिग्रहे पाँत्रे वर्तते तद् विविञ्चन् - परिष्ठापयन् वा विशोधयन् मुखहस्तपात्रादिकं निर्लेपं कुर्वन् वा स नो अतिक्रामति भगवदाज्ञां नोल्लङ्घयति, यदि पुनः तद् अशनादि आत्मना - स्वयं भुञ्जानः, इत्येत्पर्यन्त' पाठ' यावत्पदग्रायः, 'अन्नेसिं वा' इत्यादि, अन्येभ्यो वा ददानः स रात्रिभोजनप्रतिसेवनप्राप्तः रात्रिभोजनदोपापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् ॥ सू० ७–२ ॥
पूर्व संस्तृतस्य विचिकित्सास मापन्नस्य प्रायश्चित्तं प्रोक्तम्, सम्प्रति असंस्तृतस्य निर्विचि - कित्सितस्य प्रायश्चित्तमाह - ' भिक्खु य' इत्यादि ।
सूत्रम् - 'भिक्खु य उग्गयवित्तिए अणत्थमियसंकप्पे असंथडिए निव्वितिगिच्छे असणंव पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राइभोयणपडिसेवणप्पत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुस्वाइयं ।। सू० ८-३॥
छाया - भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः असंस्तुतः निर्विचिकित्सः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य आहारम् अहरन् यावत् अन्येभ्यो वा ददानः रात्रिभोजनप्रति सेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुघातिकम् ।। सू० ८-३ ॥
चूर्णी - भिक्खुय' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः दिवसंमात्रभोजीत्यर्थः स असंस्तृतः--असमर्थः ग्लानत्वादियुक्त अध्यविहारखिन्नः क्षपकः मासक्षमणादितपोयुको वा निर्विचिकित्स विचिकित्सारहितः -- सूर्योदय - सर्यानस्तमितरूपसंशयवर्जितः सूर्य उगतः
"