________________
चूर्णि भाष्यावचूरी उ० १ सू० ९-११
रात्रौ - उद्गाल गिलन नायश्चित्तविधिः १२५ नास्तं गतो वा इत्येवं निश्चयवान् सन् अशनं वा ४ अशनादिचतुर्विधमाहारं प्रतिगृह्य तमाहारमाहरन्, इत्यादि शेषं सर्वे पूर्वसूत्रवदेव व्याख्येयम् । सू० ८-३ ॥
पूर्वं असंस्तृतस्य निर्विचिकित्सितस्य प्रायश्चित्तमुक्तम्, सम्प्रति असंस्तृतस्यैव विचिकित्सा संपन्नस्य प्रायश्चित्तमाह- ‘भिक्खू य' इत्यादि ।
सूत्रम् - - भिक्खू य उग्गयवित्तिए अणत्थमियसंकप्पे असंथडिए वितिमिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारहा अणुग्धायं ॥ सू० ९-४ ॥
छाया - भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः असंस्तृतो विचिकित्सासमापन्नः अशनं वा पान खाद्य वा स्वाद्यं वा प्रतिगृह्या आहारं आहरन् यावत् अन्येभ्यो वा ददानः रात्रिभोजन प्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू० ९-४ ॥
चूर्णी -- ' भिक्खू य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः असंस्तृतः असमर्थः—–ग्लानो मासक्षपकः अध्वखिन्नो वा विचिकित्सा समापन्नः - सूर्यस्य उदयाऽस्तमितविषयकशङ्कासम्पन्नः अशनं वा ४ अशनादिचतुर्विधमाहारं प्रतिगृह्य तमाहारम् अहरन् इत्यादि शेषं सर्वम् असंस्तृतस्य निर्विचिकित्सासूत्रवद् व्याख्येयमिति ।
"
-
अत्रेदमवधेयम् - प्रथमं सूत्रम् - निर्विचिकित्स - संशयरहित संस्तृतं समर्थ श्रमणमधिकृत्य प्रतिपादितम् १ । द्वितीयं सूत्रम् - विचिकित्सा समापन्नं - संशययुक्तं संस्तृतं - समर्थं श्रमणमधिकृत्य प्रोक्तम् २ । तृतीयं सूत्रम्-असस्तृतम् - असमर्थ निर्विचिकित्सं - संशयरहितं श्रमणमधिकृत्य प्ररूपितम् ३ । चतुर्थं सूत्रम्-असंस्तृतम् - असमर्थं विचिकित्सा समापन्न – संशयापन्नं श्रमणमधिकृत्याभिहितम् ४ । इति चत्वारि सूत्राणि व्याख्यातानि ॥ सू०९
-४ ॥
पूर्वं श्रमणानां रात्रिभोजनप्रतिसेवनप्राप्तौ प्रायश्चित्तं प्रतिपादितम्, सम्प्रति, रात्रिभोजनप्रस्तावादेव रात्रौ समागतोङ्गालस्य गिलने प्रायश्चित्तं प्रतिपादयति - ' इह खलु' इत्यादि ।
सूत्रम् — इह खलु निग्गंथस्स वा निग्गंथीए वा राभो वा वियाले वा सपाणे सभोयणे उग्गाले आगच्छेज्जा, तं विर्गिचमाणे वा विसोहेमाणे वा नो अइक्क - मइ, तं उग्गिलित्ता पच्चोगिलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ सियं परिहारद्वाणं अणुग्धाइयं ॥ सू० १० ॥
चाउम्मा
छाया -- इह खलु निर्ग्रन्थस्य वा निर्ग्रन्ध्या वा रात्रौ वा विकाले वा सपानः सभोजनः उद्गालः आगच्छेत् त विविञ्चन् वा विशोधयन् वा नो अतिक्रामति, तम् उद्गीर्य प्रत्यवगिलन् रात्रिभोजनप्रति सेवनप्राप्त आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्वातिकम् ॥ सू० १० ॥