________________
बृहत्कॅल्पसूत्रे
चूर्णी --' इह खलु' इति । इह खलु जिनप्रवचने ग्रामादौ वा वर्त्तमानस्य निर्ग्रन्थस्य वा निर्ग्रन्य्या वा रात्रौ वा विकाले सन्ध्याकाले रात्र्यन्ते वा यदि सपानः - पानकद्रव्यसहितः, सभोजनः भुक्तभोजनद्रव्यसहितः उद्गालः उत् ऊर्ध्वं मुखाभिमुखं गलत वातादिप्रकोपेन मुखे समागच्छतीति उद्गालः जलमिश्रितरसीभूतपानभोजनद्रव्ययुक्त उद्गारः आगच्छेत्, तथा च यदि कदाचित् सिक्थवर्जितं केवलं किञ्चित् पानीयमुङ्गारेण सह मुखे आगच्छेत्, कदाचित् केवलं कूरादिसिक्थं वा आगच्छेत्, कदाचित् तदुभयं वा आगच्छेत् तदा तम् उद्गालं विविञ्चन् बहिः परिष्ठापयन् विशोधयन् वस्त्रादिना सुखशुद्धिं कुर्वन् स भिक्षु. नो-नैव अतिक्रामति तीर्थकराज्ञां नोल्लवयति, एवं कुर्वन् भिक्षुराराधक एव नो विराधक इति भावः । किन्तु तं - पानभोजनसहितमुद्गालम् उद्गीर्य तस्य उद्गीर्णं कृत्वा मुखे समाकृष्येत्यर्थ प्रत्यवगिलन् पुनः कण्ठादध उत्तारयन् स रात्रिभोजन प्रतिसेवनप्राप्त. अकृतरात्रिभोजनोऽपि रात्रिभोजन दोषापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं चतुर्गुरुकरूपं प्रायश्चित्तमिति ॥ सू० १० ॥
શરદ
पूर्व श्रमणस्य रात्रौ समागतसपानसभोजनोद्गालस्य प्रत्यवगिलने प्रायश्चित्तमुक्तम्, सम्प्रति समागतस्य प्राणवीजादियुक्ताहारस्य किं कर्तव्यमिति तद्विधिमाह - 'निग्गंथस्स वा इत्यादि ।
सूत्रम् — निग्गंथस्स वा गाहावइकुलं पिंडवायपडियाए अणुष्पविहस्स अंतो पडिग्गहंसि पाणाणि वा वीयाणि वा रए वा परियावज्जेज्जा तं च संचाएइ बिर्गिचित्त वा विसोहित्तए वा तं पुत्र्वामेव लाइय विसोहिय विसोहिय तओ संजयामे वा भुंजेज्ज वा पिवेज्ज वा तं च नो संचाएर विर्गिचित्त वा विसोहित्तए वा तं नो अप्पणा भुंजिज्जा नो अन्नेसिं दावए, एगंते बहुफासुए थंडिले पडिले हित्ता पमज्जित्ता परिवेयव्वेसिया ॥ सू० ११ ॥
छाया - निर्ग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे प्राणा वा वीजानि वा रजो वा पर्यापतेत्, तच्च शक्नोति विवेक्तुं वा विशोधयितुं वा, तत् पूर्वमेव लात्वा विशोध्य विशोध्य ततः संयत एव भुञ्जीत वा पिबेद् वा, तच्च नो शक्नोति विवेक्तुं वा विशोधयितुं वा तद् नो आत्मना भुञ्जीत, नो अन्येभ्यो दद्यात् एकान्ते वहुप्रासु स्थण्डिले प्रत्युपेक्ष्य प्रमृज्य परिष्ठापयितव्यं स्यात् ।
चूर्णी – 'निग्गंथस्स' इति । निर्गन्थस्य श्रमणस्य गाथापतिकुलं—–गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन अनुप्रविष्टस्य गतस्य तत्र अन्तः प्रतिग्रहे पात्राभ्यन्तरे यदि प्राणा वा द्वीन्द्रियादय., बीजानि वा वनस्पतिकायविशेषरूपाणि, रजो वा सचित्तधूली सचित्तपृथिवीकायविशेष, अग्निकणः तेजस्कायो वा पर्यापतेत् आगच्छेत् तदा तच्च प्राणादिजातं यदि 'संचाएइ' इति शक्नोति विवेक्तुम् पृथमर्तुम्, विशोधयितुम् - सर्वथा पृथक्कर्त्तुम्, तथा तत् द्वीन्द्रिया