________________
पूर्णिभाष्यावधूरी उ० ५ सू० प्राणादिपतिताहारकरणाकरणविधिः १२७ दिजीवं पूर्वमेव प्रथममेव लात्वा हस्तादिना गृहीत्वा प्रतिलेख्य प्रतिलेख्य सर्वथैव अपनीयापनीय पात्रमध्याद् निस्सार्य २, ततः तदनन्तरं संयत एव यतनया भुञ्जीत वा पिबेद् वा । यदि पुनः तच्च प्राणादि-द्वीन्द्रियादिजीवं 'नो संचाएइ' इति नो शक्नोति विवेक्तुं निस्सारयितुम् वा पृथकर्तुम् , विशोधयितुं वा विशेषतो दूरीकत्तुं यदि न शक्नोति तदा तत् द्वीन्द्रियादियुक्तं भक्तपानं नो आत्मना स्वयं भुञ्जीत नो वा अन्येभ्यः श्रमणादिभ्यो दद्यात् , तर्हि किं कुर्यात् ? इत्याह-तद् भक्तपानम् एकान्ते विजने बहुप्रासुके अत्यन्तप्राशुके अवश्यायोत्तिङ्गादिरहिते स्थाने प्रत्युपेक्ष्य चक्षुषा सम्यग् निरीक्ष्य, प्रमृज्य रजोहरणेन प्रमार्जनं कृत्वा परिष्ठापयितव्यं स्यात् , तस्य प्राणादिमिश्रितभक्तपानस्य परिष्ठापनं कर्त्तव्यं न तु स्वयं भोक्तव्यं नाप्यन्येभ्यो वा दातव्यमिति भावः ॥ सू० ११॥
पूर्वमाहारसूत्रे प्राणपदेन त्रसानां, बीजपदेन वनस्पतिकायानां, रजोग्रहणेन पृथिव्यग्निकायानां, वायोः सर्वत्रान्तर्गतत्वेन वायुकायानां च ग्रहणं कृतमिति कायपञ्चकमुक्तम् , सम्प्रति अत्र सूत्रे षष्ठमकायमधिकृत्य भोजनविधि प्रतिपादयति-'निग्गंथस्स य' इत्यादि ।
सूत्रम्-निग्गंथस्स य गाहावइकुलं पिंडदायपडियाए अणुप्प विहस्स __ अंतो पडिग्गहंसि दगे वा दगरए वा दगफुसिए वा परियावज्जेज्जा, से य उसिणे
भोयणजाए भोत्तव्वे सिया, से य सीए भोयणजाए तं नो अप्पणा अँजिज्जा नो अन्नेसि दावए, एगते बहुफासुए थंडिले परिटवेयवे सिया ॥ सू० १२ ॥
छाया-निग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे दकं वा दकरजो वा दकपद् वा पर्यापतेत् तच्च उष्ण भोजनजातं भोक्तव्यं स्यात् , अथ च शीतं भोजनजातं तत् नो आत्मना भुञ्जीत, नो अन्येभ्यो दद्यात् एकान्ते बहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यात् ॥ सू० १२ ॥
चूर्णी-निग्गंथस्स य' इति । निर्ग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे पात्राभ्यन्तरे दकं वा अप्कायसमूहरूपम् , दकरजो वा उदकबिन्दर्वादकपृषत्-उदकशीकरो जलकणो वा पर्यापतेत् , तच्च पात्रस्थितं भोजनजातं यदि उष्णं भवेत तदा तद् भोजनजातं श्रमणस्य भोक्तव्य भोजनयोग्य स्यात् , श्रमणेन तद् भोक्तव्यम् , उष्णपतितदकादेः शस्त्रपरिणतत्वेनाचित्तत्वसद्ावात् । तदपि भोजनजातं यदि शीतं भवेत् तदा तद् भोजनजातं पतितदकादेः शस्त्राऽपरिणतत्वेन सचित्तत्वसद्भावात् नो आत्मना स्वयं भुञ्जीत नापि च तद् अन्येभ्यो दद्यात् अपितु तद् भोजनजातम् एकान्ते बहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यादिति । अत्र दक-दकरजःप्रभृतीनां परिमाणकृतो भेदो बोध्यः, तथाहि-दकपदेन प्रभूताप्कायरूपमुदकं गृह्यते, दकरजःपदेन उदकबिन्दुरुच्यते, दकपृषत्पदेन पुन. पानीयेऽन्यत्र प्रक्षिप्यमाणे वायुप्रेरितास्तत्रागत्य प्रपतन्तो जलकणाः प्रतिगृह्यन्ते इति विवेकः ॥ सू०१२॥