________________
१२८
बृहत्कल्पसूत्रे पूर्व प्राणातिपातादिरक्षणवक्तव्यता प्रतिपादिता, सम्प्रति ब्रह्मचर्यव्रतरक्षणार्थमिन्द्रियविषये श्रोतोविषये च क्रमशः सूत्रद्वयं प्रतिपादयन् प्रथममिन्द्रियविषयं निर्ग्रन्थीसूत्रमाह'निग्गंथीए इत्यादि।
सूत्रम्-निग्गंथीए राओ वा वियाले वा उच्चारं वा पासवणं वा विगिंचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजाइए वा पक्खिजाइए वा अन्नयरं इंदियजायं परामुसेज्जा, तं च निग्गंथी साइज्जेजा, हत्थकम्मपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्घाइयं ॥ सू० १३॥
छाया-निर्ग्रन्थ्याः रात्रौ वा विकाले वा उच्चारं वा प्रनवणं वा विविञ्चत्या वा विशोधयन्त्या वा अन्यतरः पशुजातीयो वा पक्षिजातीयो वा अन्यतरद इन्द्रियजातं परामृशेत् , तं च निर्ग्रन्थी स्वादयेत् हस्तकर्मप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकम् अनुद्घातिकम् ॥सू०१३॥
चूर्णी-'निग्गंधीए' इति । निर्ग्रन्ध्याः-श्रमण्याः रात्रौ वा रजनीसमये, विकाले वा पूर्वापरसन्ध्यासमये उच्चारं वा संज्ञाम् , प्रत्रवणं वा कायिकीलक्षणम् , विविञ्चत्या वा परिष्ठापयन्त्याः , विशोधयन्त्या वा शुद्धिं कुर्वन्त्याः तत्समये अन्यतरः कश्चिद् एकतरः पशुजातीयो वा वानरादिः, पक्षिजातीयो वा मयूरादिः यदि अन्यतरत्-किमपि एकतरत् इन्द्रियजातम्-स्तनकपोलमुखनयनपाणिपादादिकम् अङ्गविशेष परामृशेत्- स्पृशेत् , अथ तं च वानरादिस्पर्श निर्ग्रन्थी स्वादयेत् 'सुखदोऽयं स्पर्शः' इत्येवमनुमोदयेत् , तदा हस्तकर्मप्रतिसेवनप्राप्ता अकृतहस्तकर्माऽपि हस्तकर्मप्रयुक्तदोपापन्ना सती आपद्यते चातुर्मासिकम् अनुद्घातिकं-चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोति ॥ सू० १३ ॥
पूर्वमिन्द्रियविषयकं प्रथमं सूत्रं प्रतिपादितम् , सम्प्रति श्रोतोविषयं द्वितीयं निर्ग्रन्थीसूत्रमाह-निग्गंथीए' इत्यादि ।
सूत्रम्-निग्गंथीए राओ वा वियाले वा उच्चारं वा पासवणं वा विगिंचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजाइए वा पक्खिजाइए वा अन्नयरंसि सोयंसि ओगाहिज्जा, तं च निग्गंधी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्याइयं ॥ सू० १४ ॥
छाया- निर्ग्रन्थ्या रात्रौ वा विकाले वा उच्चारं वा प्रस्रवणं वा विविञ्चत्या वा विशोधयन्त्या वा अन्यतरः पशुजातीयो वा पक्षिजातीयो वा अन्यतरस्मिन् श्रोतसि अवगाहेत, तच्च निग्रन्थी स्वादयेत् मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकम् अनुद्घातिकम् ॥ सू० १४॥
चूर्णी-'निग्गंधीए' इति । निर्ग्रन्ध्या रात्रौ विकाले वा उच्चारप्रस्रवणं परिष्ठापयन्त्या वा शुद्धिं कुर्वन्या वा तत्समये अन्यतरः कश्चिदेकः पशुजातीयो वा प्राणी वानरादिः