________________
चूणिभाष्यावचूरी उ० ५ सू० १५-१९ निम्रन्थ्या एकाकिनीत्वादिमर्यादा १२९ पक्षिजातीयो वा प्राणी-हेसमयूरादिः यदि अन्यतरस्मिन् कस्मिंश्चित् श्रोतसि-योनिकक्षाजघनादिसन्धिरूपे विवरे अवगाहेत स्वीयं किमपि अङ्गं प्रवेशयेत् , तच्च. योन्यादौ वानरादीनामङ्गावगाहनं स्वादयेत् 'कीदृशमिदं सुखदमवगाहनम्' इत्येवमनुमोदयेत्-तदवगाहनेन मनसि सुखमनुभवेत् तदा सा निर्ग्रन्थी मैथुनप्रतिसेवनप्राप्ता-अनासेवितमैथुनाऽपि मैथुनसेवनजन्यदोषापन्ना सती आपद्यते चातुर्मासिकमनुद्घातिकं प्रायश्चित्तम् ।। सू० १४ ॥
___ पूर्व ब्रह्मचर्यव्रतविषया दोषाः प्रतिपादिताः, ते च दोषाः प्राय एकाकिन्याः संभवन्तीति सम्प्रति निम्रन्थ्या एकाकिन्याः स्थित्यादिनिषेधविषयकं सूत्रचतुष्टयं प्रतिपादयति-'नो कप्पइ निग्गंथीए' इत्यादि।।
सूत्रम्-नो कप्पइ निग्गंथीए एगाणियाए होत्तए ॥ सू० १५॥ छाया-नो कल्पते निर्ग्रन्थ्या एकाकिन्या भवितुम् ॥ सू० १५॥
चूर्णी 'नो कप्पइ' इति । नो कल्पते निर्घन्ध्या एकाकिन्या असहायया भवितुम् , निम्रन्ध्या. एकाकिन्या कदापि न भवितव्यम् स्त्रीशरीरस्य पुरुषस्पृहणीयत्वेन दृढसंहननधृतिबलादिराहित्येन च बलात्कारादिसद्गावे ब्रह्मचर्यव्रतभङ्गदोषप्रसङ्गात् ॥ सू० १५ ॥
सूत्रम्-नो कप्पइ निग्गंथीए एगाणियाए गाहावइकुलं पिंडवायपडियाए निक्खमित्तए वा पविसित्तए वा ॥ सू०१६॥
छाया--नो कल्पते निग्रंन्थ्या एकाकिन्या गाथापतिकुलं पिण्डपातप्रत्ययेन निष्फ्रमितुं वा प्रवेष्टुं वा ॥ सू० १६॥ ___चूर्णी-एवम् एकाकिन्या गाथापतिकुलं-गृहस्थगृहं पिण्डपातप्रत्ययेन आहारादिग्रहणनिमित्तं निष्क्रमितुम् उपाश्रयाद् गृहस्थगृहे भक्तपानाद्यर्थ निस्सर्तुम् , तथा प्रवेष्टु गृहस्थगृहे प्रवेशं कर्तुम् न कल्पते ॥ सू० १६ ॥
सूत्रम्--नो कप्पइ निग्गंथीए एगाणियाए वहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा ॥ सू० १७ ॥
छाया-नो कल्पते निम्रन्थ्या एकाकिन्या वहिर्विचारभूमि वा विहारभूमिं घा निष्क्रमितुवा प्रवेष्टुं वा ॥ सु० १७॥
चूर्णी- एवम् एकाकिन्या बहिः उपाश्रयावहिः विचारभूमिं संज्ञामिम् निष्क्रमितुं वा उपाश्रयात् , प्रवेष्टुं वा सज्ञाभूमौ न कल्पते, तथा विहारभूमिं स्वाध्यायादिभूमौ वा निष्क्रमितुम् उपाश्रयात्, प्रवेष्टुम्-स्वाध्यायभूमौ एकाकिन्या न कल्पते ॥ सू० १७॥
सूत्रम्- नो कप्पइ निग्गंथीए एगाणियाए गामाणुगामं दृइज्जित्तए चा वासावासं वा वत्थए । सू० १८ ॥