Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 478
________________ चूर्णिताध्याय उ० ५ ० ६-८ उद्गतवृत्तिकभिक्षोराहारविधिः १२३ 'जमाणे अण्णसिं वा दलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारद्वाणं अणुस्वाइयं || सू० ६-१ ॥ छाया - भिक्षुश्व उद्गतवृत्तिकः अनस्तमितसंकल्पः संस्तृतो निर्विचिकित्सः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य आहारम् अहरन् अथ पश्चादेवं जानीयात् - अनुगतः सूर्योऽस्तमितो वा, स यच्च आस्ये, यच्च पाणौ यच्च प्रतिग्रहे तद् विविश्ञ्चन् वा विशोधयन् वा नो अतिक्रामति, तद् आत्मना भुञ्जान अन्येभ्यो वा ददानो रात्रिभो - जनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू० ६ ॥ चूर्णी - ' भिक्खू य' इति । भिक्षुश्च, कीदृशः स ? उद्गतवृत्तिकः, उद्गते उदयं प्राप्ते सूर्ये वृत्तिः संयमयात्रा निर्वाहक भिक्षाकरणादिव्यवहारो यस्य स उद्गतवृत्तिकः, सूयोद्गमनान्तरमेव आहारादिक्रियाकारक', पुनश्च मनस्तमितसंकल्पः अनस्तमिते - अस्तमप्राप्ते सूर्ये सूर्यास्तमनात् प्रागेव संकल्पः आहारादिग्रहणनियमो यस्य स अनस्तमितसंकल्पः सूर्योदयानन्तरं सूर्यास्तगमनात्प्रागेव सूर्योपस्थितिकाले एव आहारादिग्रहणनियमवान् इत्यर्थः, अत एव संस्तृतः समर्थः दिवसभोजननियमवान्, एनादृशो भिक्षुः - श्रमणः निर्विचिकित्सः निर्गता अपगता विचिकित्सा - संयमात्मकचित्तवृत्तिविशेषरूपा यस्मात् स निर्विचिकित्सः अन्यदीपादिज्योतिः प्रकाशादिकारणवशात् सूर्यउदयं प्राप्तः, नास्तं गतो वा सूर्य, इत्येवं निश्चयमापन्नः सन् अशनं वा ४ अशनादिचतुविघमाहारम् प्रतिगृह्य - आदाय आहारमाहरन् भुञ्जानः भोक्तुमारब्धः, अथ यदि पश्चात् तदनन्तरं भोजनप्रारम्भानन्तरं जानीयात् अनुगतः सूर्यः नोदयं प्राप्तः सूर्यः, वा – अथवा व्यस्तमितो वा अस्तं प्राप्तो वा सूर्य., इत्येवं निश्चिनुयात् - जानीयात् तदा तादृश्यां परिस्थितौ स श्रमणः यच्च अशनादि आस्ये-मुखे कवलीकृत्य क्षिप्तं भवेत् यच्च अशनादिकं पाणौ - हस्ते मुखे प्रक्षेप्तुं गृहीतम्, यच्च अशनादि प्रतिग्रहे पात्रे स्थितं वर्तते तत् विविञ्चन् परिष्ठापयन् विशोधयन् पात्रं निर्लेपं कुर्वन् नो अतिक्रमति तीर्थकृदाज्ञां नोल्लङ्घयति, सर्वथैव तथाविधाशनादि परिष्ठापयन् पात्रं च निर्लेपं कुर्वन् स श्रमण आराधको भवति न विराधक इति । यदि पुनः तद् अशनादिकम् आत्मना ना स्वयं भुञ्जानः आहरन्, तथा अन्येभ्यो वा श्रमणादिभ्यो ददानो भवेत् तदा अभुक्ततदाहारोऽपि रात्रिभोजनप्रतिसेवनप्राप्त. रात्रिभोजनदोषापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोतीति ॥ सू० ६-१ ॥ * पूर्वं संस्तृतस्य सूर्योदय - सूर्यानस्तमितविषये निर्विचिकित्सितस्य - निःशङ्कस्याहारविधि - रुक्तः, सम्प्रति पुनः संस्तृतस्यैव सूर्यानुद्गतास्तमितविषये विचिकित्सा समापन्नस्य - सशयापन्नस्य अशनादिविषये प्रायश्चित्तमाह – 'भिक्खू य' इत्यादि । सूत्रम् - भिक्खू य उम्गयवित्तिए अणत्थमियसंकप्पे संथडिए वितिमिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारे -

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536