Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 476
________________ चूर्णिभाष्यायचूरी उ० ५ सू० २-५ निम्रन्थनिर्ग्रन्थीनां देवदेवीकृतोपसर्गवर्णनम् १२१ चूर्णी-'देवे य पुरिसरूवं' इति । देवश्च तृणादिमयोपाश्रये निवसन् कश्चिद्देवो व्यन्तरादिः पुरुषरूपं-रमणीयपुरुषाकृति विकुळ स्वविकुर्वणाशक्त्या निष्पाद्य निग्रन्थीं तत्रोपाश्रये वसन्ती साध्वी प्रतिगृह्णीयात् स्वशरीरबाह्वादिना समालिङ्गेत् तच्च प्रतिग्रहणम्- पुरुषालिङ्गनं यदि निम्रन्थी स्वादयेत्-‘सुखदोऽयं पुरुषशरीरस्पर्शः' इत्येवमनुमोदयेत् तदा सा निर्ग्रन्थी मैथुनप्रतिसेवनप्राप्ता अनासेवितमैथुनाऽपि समापन्नमैथुनसेवनदोषा सती आपद्यते-प्राप्नोति चातुर्मासिकं अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् निम्रन्थीनां परिहारतपो न भवतीति कृत्वा 'परिहारहाण' इतिपदं निम्रन्थीसूत्रे न प्रोक्तमिति ।। सू० २ ॥ पूर्व निर्ग्रन्थीमाश्रित्य पुरुषरूपेण देवकृतोपसर्गों वर्णितः, सम्प्रति निम्रन्थमाश्रित्य स्त्रीरूपेण देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य इत्थिरूवं' इत्यादि । सूत्रम्-देवी य इत्थित्वं विउन्वित्ता निग्गंथं पडिग्गाहिज्जा, तं च निग्गंथे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ सू० ॥३॥ छाया-देवी च स्त्रीरूपं विकुळ निर्ग्रन्थं प्रतिगृह्णीयात् , तच्च निर्ग्रन्थः स्वादयेत् , मैथुनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥सू० ३॥ चूर्णी-'देवी य इत्थिरूवं' इति । देवी च स्त्रीरूपं-ललितस्त्रीरूपं विकुर्व्य स्ववैक्रियशक्त्या संपाद्य निग्रन्थं प्रतिगृह्णीयात् स्वशरीरबाहादिना आलिङ्गेत् , तच्च प्रतिग्रहणं स्त्रीशरीरालिङ्गनं स्वादयेत् - 'मनोमोदजनकोऽयं स्त्रीस्पर्शः' इत्येवमनुमोदयेत् तदा स निर्ग्रन्थः मैथुन-- प्रतिसेवनप्राप्तः-अनासेवितमैथुनोऽपि मैथुनसेवनजन्यदोषसपन्नः सन् आपद्यते-प्राप्नोति चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम्-चतुर्गुरुरूपं प्रायश्चित्तम् ॥ सू० ॥ ३ ॥ पूर्व निर्ग्रन्थमाश्रित्य स्त्रीरूपेण देवीकृतोपसर्गो वर्णितः, सम्प्रति निर्ग्रन्थीमाश्रित्य पुरुषरूपेण देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य पुरिसरूवं' इत्यादि । सूत्रम्--देवी य पुरिसरूवं विउव्वित्ता निग्गर्थि पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्घाइयं ॥ सू० ४॥ छाया--देवी च पुरुषरूपं विकुळ निर्ग्रन्थी प्रतिगृह्णीयात् तच्च निर्ग्रन्थी स्वादयेत् , मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकं अनुद्घातिकम् ॥ सू० ४॥ चूर्णी-देवी य पुरिसरुवं' इति । देवी च पुरुषरूपं पुरुषाकृति विकुळ स्ववैक्रियशक्त्यां नवयौवनसंपन्नां संपाद्य निर्ग्रन्थीं तत्रोपाश्रयस्थितां साध्वी प्रतिगृह्णीयात्-स्वशरीरभुजादिना समालिङ्गेत, तच्च प्रतिग्रहणं समालिङ्गनं निग्रन्थी साध्वी स्वादयेत्-'सुखजनकोऽयं पुरुषस्पर्शः' इत्येवमनुमोदयेत् तदा सा मैथुनप्रतिसेवनप्राप्ता-अनासेवितमैथुनाऽपि मैथुनसेवनजन्यदोषसंपन्ना सती आपद्यते-- प्राप्नोति चातुर्मासिकम् अनुद्घातिकं चतुर्गुरुकरूपं प्रायश्चित्तम् । सू० ४ ॥ १६

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536