Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 480
________________ चूर्णि भाष्यावचूरी उ० १ सू० ९-११ रात्रौ - उद्गाल गिलन नायश्चित्तविधिः १२५ नास्तं गतो वा इत्येवं निश्चयवान् सन् अशनं वा ४ अशनादिचतुर्विधमाहारं प्रतिगृह्य तमाहारमाहरन्, इत्यादि शेषं सर्वे पूर्वसूत्रवदेव व्याख्येयम् । सू० ८-३ ॥ पूर्वं असंस्तृतस्य निर्विचिकित्सितस्य प्रायश्चित्तमुक्तम्, सम्प्रति असंस्तृतस्यैव विचिकित्सा संपन्नस्य प्रायश्चित्तमाह- ‘भिक्खू य' इत्यादि । सूत्रम् - - भिक्खू य उग्गयवित्तिए अणत्थमियसंकप्पे असंथडिए वितिमिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारहा अणुग्धायं ॥ सू० ९-४ ॥ छाया - भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः असंस्तृतो विचिकित्सासमापन्नः अशनं वा पान खाद्य वा स्वाद्यं वा प्रतिगृह्या आहारं आहरन् यावत् अन्येभ्यो वा ददानः रात्रिभोजन प्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू० ९-४ ॥ चूर्णी -- ' भिक्खू य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः असंस्तृतः असमर्थः—–ग्लानो मासक्षपकः अध्वखिन्नो वा विचिकित्सा समापन्नः - सूर्यस्य उदयाऽस्तमितविषयकशङ्कासम्पन्नः अशनं वा ४ अशनादिचतुर्विधमाहारं प्रतिगृह्य तमाहारम् अहरन् इत्यादि शेषं सर्वम् असंस्तृतस्य निर्विचिकित्सासूत्रवद् व्याख्येयमिति । " - अत्रेदमवधेयम् - प्रथमं सूत्रम् - निर्विचिकित्स - संशयरहित संस्तृतं समर्थ श्रमणमधिकृत्य प्रतिपादितम् १ । द्वितीयं सूत्रम् - विचिकित्सा समापन्नं - संशययुक्तं संस्तृतं - समर्थं श्रमणमधिकृत्य प्रोक्तम् २ । तृतीयं सूत्रम्-असस्तृतम् - असमर्थ निर्विचिकित्सं - संशयरहितं श्रमणमधिकृत्य प्ररूपितम् ३ । चतुर्थं सूत्रम्-असंस्तृतम् - असमर्थं विचिकित्सा समापन्न – संशयापन्नं श्रमणमधिकृत्याभिहितम् ४ । इति चत्वारि सूत्राणि व्याख्यातानि ॥ सू०९ -४ ॥ पूर्वं श्रमणानां रात्रिभोजनप्रतिसेवनप्राप्तौ प्रायश्चित्तं प्रतिपादितम्, सम्प्रति, रात्रिभोजनप्रस्तावादेव रात्रौ समागतोङ्गालस्य गिलने प्रायश्चित्तं प्रतिपादयति - ' इह खलु' इत्यादि । सूत्रम् — इह खलु निग्गंथस्स वा निग्गंथीए वा राभो वा वियाले वा सपाणे सभोयणे उग्गाले आगच्छेज्जा, तं विर्गिचमाणे वा विसोहेमाणे वा नो अइक्क - मइ, तं उग्गिलित्ता पच्चोगिलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ सियं परिहारद्वाणं अणुग्धाइयं ॥ सू० १० ॥ चाउम्मा छाया -- इह खलु निर्ग्रन्थस्य वा निर्ग्रन्ध्या वा रात्रौ वा विकाले वा सपानः सभोजनः उद्गालः आगच्छेत् त विविञ्चन् वा विशोधयन् वा नो अतिक्रामति, तम् उद्गीर्य प्रत्यवगिलन् रात्रिभोजनप्रति सेवनप्राप्त आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्वातिकम् ॥ सू० १० ॥

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536