Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 473
________________ ११८ हत्कल्पसूत्रे पूर्व श्रवणादधच्छादनतृणादियुक्ते उपाश्रये निर्ग्रन्थनिर्ग्रन्थीनां वासो निषिद्धः, सम्प्रति तद्वैपरीत्येन श्रवणापरिच्छादनतृणादियुक्ते उपाश्रये वासविधि प्रतिपादयितुमाह-'से तणेसु वा' इत्यादि । सूत्रम्-से तणेसु वा जाव-संताणएमु उप्पि सवणमायाए कप्पई निग्गंथाण वा निग्गंधीण वा तहप्पगारे उवस्सए हेमंतगिम्हासु वत्थए ॥ सू० ३५ ॥ छाया-अथ तृणेपु वा यावत् सन्तानकेपु उपरि श्रवणमात्रया कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तथाप्रकारे उपाश्रये हेमन्तग्रीमेपु वस्तुम् ॥ सू० ३५॥ चूर्णी-'से तणेसु वा' इति । 'से' अथ-तृणेपु वा इति-तृण-तृणपुञ्ज-पलालपलालपुञ्जेषु अण्ड-प्राण-बीज-हरिता-ऽवश्यायो-त्तिङ्ग-पनक-दकमृत्तिका-मर्कटसन्तानवर्जितेषु यदि 'उप्पिं सवणमायाए' उपरि श्रवणमात्रया-कर्णद्वयोपरि छादनतृणादीनि भवेयुस्तदा कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा तथाप्रकारे-तथाविधे उपाश्रये हेमन्तग्रीष्मेषु-ऋतुबद्धकालेषु हेमन्तादिग्रीष्मपर्यन्तेषु अष्टसु मासेषु वस्तुं कल्पते ॥ सू० ३५ ॥ पूर्व श्रमणानाम् ऋतुबद्धकालेषु उपाश्रयविशेषे वासस्य विधि-निषेधौ प्रतिपादितौ, सम्प्रति तेषामेव वर्षावासे उपाश्रयविशेषे विधि-निषेधौ प्रतिपादयितुं प्रथमं निषेधसूत्रमाह'से तणेसु वा' इत्यादि । सूत्रम्-से तणेसु वा जाव संताणएमु अहे रयणिमुक्कमउडेसु नो कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उबस्सए वासावासं वत्थए ॥ सू० ३६ ॥ छाया - अथ तृणेषु वा यावत् सन्तानकेषु अधो रत्निमुक्तमुकुटेषु नो कल्पते निम्रस्थानां वा निर्ग्रन्थीनां वा तथाप्रकारे उपाश्रये वर्षावासे वस्तुम् ॥सू० ३६॥ चूर्णी-'से तणेसु वा' इति । पूर्वोक्तेषु तृणादिषु अण्डादिवर्जितेषु सत्स्वपि 'अहेरयणिमुक्कमउडेसु' अधोरनिमुक्तमुकुटेषु,- सूत्रे पञ्चम्यर्थे सप्तमी, तेन-अघोरनिमुक्तमुकुटात् रनिभ्या हस्ताभ्यां मुक्ताभ्याम् विष्कम्मतया उच्छ्रिताभ्यां निर्मितः मुकुटः अञ्जलिमुकुलितोच्छूितबाहुद्वयरूपः स रनिमुक्तमुकुटः, मुकुट इति कोऽर्थः ? उक्तञ्च-- “मउडो पुण दोरयणी-पमाणओ होइ हु मुणेयन्यो" मुकुटः पुनर्द्विरस्निप्रमाणकः संयोजितरनिद्वयप्रमाणवान् भवति । मस्तकोपरि संयोजितरनियस्थापनं मुकुटाकारत्वेन मुकुट इति कथितम् । तस्मात् एतावत्प्रमाणात् अधः नीचम् आच्छादनतृणादि भवति, तत्रस्थितस्य साधोर्वन्दनादिसमये ऊर्वप्रसारितबाहुद्वयमुकुलिताऽञ्जलिना आच्छादनतृणादिकं स्पृष्टं भवेत् तेन न सम्यग् वन्दनादिकं संपद्यते आछादनतृणादेर्मस्तकस्य चान्तराले एतावत्प्रमाणमन्तरमावश्यकं येन वन्दनादि सम्यक् संपद्यते, एतावत्प्रमाणादधोवा

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536