________________
११८
हत्कल्पसूत्रे
पूर्व श्रवणादधच्छादनतृणादियुक्ते उपाश्रये निर्ग्रन्थनिर्ग्रन्थीनां वासो निषिद्धः, सम्प्रति तद्वैपरीत्येन श्रवणापरिच्छादनतृणादियुक्ते उपाश्रये वासविधि प्रतिपादयितुमाह-'से तणेसु वा' इत्यादि ।
सूत्रम्-से तणेसु वा जाव-संताणएमु उप्पि सवणमायाए कप्पई निग्गंथाण वा निग्गंधीण वा तहप्पगारे उवस्सए हेमंतगिम्हासु वत्थए ॥ सू० ३५ ॥
छाया-अथ तृणेपु वा यावत् सन्तानकेपु उपरि श्रवणमात्रया कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तथाप्रकारे उपाश्रये हेमन्तग्रीमेपु वस्तुम् ॥ सू० ३५॥
चूर्णी-'से तणेसु वा' इति । 'से' अथ-तृणेपु वा इति-तृण-तृणपुञ्ज-पलालपलालपुञ्जेषु अण्ड-प्राण-बीज-हरिता-ऽवश्यायो-त्तिङ्ग-पनक-दकमृत्तिका-मर्कटसन्तानवर्जितेषु यदि 'उप्पिं सवणमायाए' उपरि श्रवणमात्रया-कर्णद्वयोपरि छादनतृणादीनि भवेयुस्तदा कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा तथाप्रकारे-तथाविधे उपाश्रये हेमन्तग्रीष्मेषु-ऋतुबद्धकालेषु हेमन्तादिग्रीष्मपर्यन्तेषु अष्टसु मासेषु वस्तुं कल्पते ॥ सू० ३५ ॥
पूर्व श्रमणानाम् ऋतुबद्धकालेषु उपाश्रयविशेषे वासस्य विधि-निषेधौ प्रतिपादितौ, सम्प्रति तेषामेव वर्षावासे उपाश्रयविशेषे विधि-निषेधौ प्रतिपादयितुं प्रथमं निषेधसूत्रमाह'से तणेसु वा' इत्यादि ।
सूत्रम्-से तणेसु वा जाव संताणएमु अहे रयणिमुक्कमउडेसु नो कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उबस्सए वासावासं वत्थए ॥ सू० ३६ ॥
छाया - अथ तृणेषु वा यावत् सन्तानकेषु अधो रत्निमुक्तमुकुटेषु नो कल्पते निम्रस्थानां वा निर्ग्रन्थीनां वा तथाप्रकारे उपाश्रये वर्षावासे वस्तुम् ॥सू० ३६॥
चूर्णी-'से तणेसु वा' इति । पूर्वोक्तेषु तृणादिषु अण्डादिवर्जितेषु सत्स्वपि 'अहेरयणिमुक्कमउडेसु' अधोरनिमुक्तमुकुटेषु,- सूत्रे पञ्चम्यर्थे सप्तमी, तेन-अघोरनिमुक्तमुकुटात् रनिभ्या हस्ताभ्यां मुक्ताभ्याम् विष्कम्मतया उच्छ्रिताभ्यां निर्मितः मुकुटः अञ्जलिमुकुलितोच्छूितबाहुद्वयरूपः स रनिमुक्तमुकुटः, मुकुट इति कोऽर्थः ? उक्तञ्च--
“मउडो पुण दोरयणी-पमाणओ होइ हु मुणेयन्यो" मुकुटः पुनर्द्विरस्निप्रमाणकः संयोजितरनिद्वयप्रमाणवान् भवति । मस्तकोपरि संयोजितरनियस्थापनं मुकुटाकारत्वेन मुकुट इति कथितम् । तस्मात् एतावत्प्रमाणात् अधः नीचम् आच्छादनतृणादि भवति, तत्रस्थितस्य साधोर्वन्दनादिसमये ऊर्वप्रसारितबाहुद्वयमुकुलिताऽञ्जलिना आच्छादनतृणादिकं स्पृष्टं भवेत् तेन न सम्यग् वन्दनादिकं संपद्यते आछादनतृणादेर्मस्तकस्य चान्तराले एतावत्प्रमाणमन्तरमावश्यकं येन वन्दनादि सम्यक् संपद्यते, एतावत्प्रमाणादधोवा