SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्यावचूरी उ० ४ सू० ३७ चतुर्थीदेशकसमाप्तिः ११९ छादनतृणादि भवेत् तादृशेषु तृणादिषु सत्सु नो कल्पते निर्ग्रन्थानां निम्रन्थीनां तभाप्रकारे उपाश्रये वर्षावासे चातुर्मास्यरूपे काले वस्तुं न कल्पते इति पूर्वेण सम्बन्धः ॥ सू०३६ ॥ पूर्वम् उपाश्रयविशेषे वर्षावासे वासनिषेधः प्रतिपादितः, सम्प्रति तद्वैपरीत्येन उपाश्रयविशेषे वर्षावासे वासविधिमाह-'से तणेसु वा' इत्यादि ।। सूत्रम्-से तणेसु वा जाव संताणएसु वा उप्पिं रयणिमुक्कमउडेसु कप्पइ निग्गंधाण वा निग्गंधीण वा तहप्पगारे उवस्सए वासावासं वत्थए ॥ सू० ३७॥ ॥ कप्पस्स चउत्थो उद्देसो समत्तो ॥४॥ छाया-अथ तृणेपु वा यावत् सन्तानकेषु उपरि रनिमुक्तमुकुटेषु कल्पते निम्रन्थानां वा निग्रंन्थीनां पा तथाप्रकारे उपाश्रये वर्षावासे वस्तुम् ॥ सू० ॥३७॥ कल्पस्य चतुर्थ उदेशः समाप्तः ॥४॥ चूर्णी-'से तणेसु वा' इति । अथ पूर्वोक्तस्वरूपेषु तृणादिषु अण्डादि वर्जितेषु सत्स पुनः 'उप्पिरयणिमुक्कमउडेसु' उपरि रस्निमुक्तमुकुटेषु, अत्रापि पञ्चम्यर्थे सप्तमी नोध्या तेन रनिमुक्तमुकुटात् पूर्वोक्तस्वरूपाद् उपरि आच्छादनतृणादि भवेत् कल्पते तथाविधे उपाश्रये निम्रन्थानां वा निम्रन्थीनां वा वर्षावासे वस्तुमिति ॥ सू० ३७ ॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुररानप्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबतिविरचितायां "बृहत्कल्पसूत्रस्य" चूर्णि-भाण्या-ऽवचूरीरूपायां व्याख्यायां चतुथोद्देशकः समाप्तः ॥४॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy