________________
पञ्चमोद्देशकः प्रारभ्यते
व्याख्यातश्चतुर्थोद्देशकः, सम्प्रति पञ्चमः प्रारभ्यते, तत्र चतुर्थो देशकान्तिमसूत्रेण पञ्चमो - देशकादिसूत्रेण कः सम्बन्धः ? इत्यत्राह भाष्यकारः - 'तणमाइ ० ' इत्यादि ।
भाष्यम् -- तणमाइवस हिवासे, विहो निसेहो य अंतिये वृत्तो । होइ जइ तत्थ देवो, देवहियारोऽत्थ भणियन्वो ॥ १ ॥ छाया - तृणादिवसतिवासे, विधिनिषेधश्च अन्तिमे प्रोक्तः । भवति यदि तत्र देवः, देवाधिकारोऽत्र भणितव्यः ॥ १ ॥ अवचूरी - 'तणमाइ' इति । अन्तिमे चतुथोद्देशकस्यान्तिमे भागे सूत्रचतुष्टये तृणादिवसतिवासे तृणादिमयोपाश्रयवा से विधिर्निषेघश्च प्रोक्तः । तत्र तादृश्यां वसतौ यदि देवः गुह्यकादिदेवो देवी वा भवति - वसति अतः अत्र पञ्चमोदेशकस्यादिमे सूत्रचतुष्टये देवाधिकारो भणितव्यः - कथयितव्यो भवतीति ॥ १ ॥
1
अनेन सम्बन्धेन सम्प्रति तृणादिमयवसतिवासे कदाचित् - देवदेवीनिवासप्रसङ्गात् निर्ग्रन्थमधिकृत्य देवकृतोपसर्गविषयकमिदमादिमं सूत्रमाह - 'देवे य इत्थिरूवं' इत्यादि ।
सूत्रम् — देवे य इथिरूवं विउब्वित्ता निग्गंथं परिग्गाहिज्जा तं च निग्गंथे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारद्वाणं अणुग्धाइयं ॥ सू० १ ॥
छाया - देवश्च स्त्रीरूपं विकुर्व्य निर्ग्रन्थ प्रतिगृहीयात्, तच्च निर्ग्रन्थः स्वादयेत् मैथुन प्रतिसेवनप्राप्त आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्धातिकम् ॥ स्० १ ॥
चूर्णी - 'देवे य' इति । तृणादिमयोपाश्रये वर्त्तमानः कश्चित् देवः - व्यन्तरादिः स्त्रीरूपं– रमणीयस्त्रीरूपं विकुर्व्य स्वस्य विकुर्वणाशक्त्या निष्पाद्य यदि निर्ग्रन्थं-तत्रस्थितं साधुं प्रतिगृह्णीयात् स्वशरीरभुजादिभिरालिङ्गेत् तच्च प्रतिग्रहणम् - स्त्र्यालिङ्गनं यदि निर्ग्रन्थः श्रमणः अनुमोदयेत् 'सुन्दरमिदं ललनालिङ्गनम्' इत्येवम् अनुमोदयेत् तदा स निर्ग्रन्थः मैथुन प्रतिसेवनप्राप्तः अनासेवितमैथुनोऽपि मैथुन सेवनदोषापन्नः सन् आपद्यते - प्राप्नोति, किमित्याह-चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं चतुर्गुरुकं प्रायश्चित्तम् ॥ सू० १ ॥
"
पूर्वं निर्ग्रन्थमाश्रित्य स्त्रीरूपेण देवकृतोपसर्गः प्रतिप्रादितः सम्प्रति निर्ग्रन्थीमाश्रित्य पुरुषरूपेण देवकृतोपसर्गं प्रतिपादयितुमाह - 'देवे य पुरिसरूवं' इत्यादि ।
सूत्रम् — देवे य पुरिसख्वं विउव्वित्ता निग्गंथिं पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा मेहुणपडि सेवणपत्ता आवज्जइ चाउम्मा सियं अणुस्वाइयं ॥ ०२ ॥
छाया - देवश्च पुरुषरूपं विकुल्यं निर्ग्रन्थीं प्रतिगृहीयात्, तच्च निर्ग्रन्थी स्वादयेत् मैथुन प्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकं अनुद्घातिकम् ॥ सू० २ ॥