Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 462
________________ चूमि भाच्यावचूरी उ० ४ सू० २६-२७ भिक्षोरन्याचार्योपाध्यायस्वीकरणविधिः १०७ पूर्व भिक्षुप्रभृतीनां सभोगनिमित्तं गणान्तरगमनं प्ररूपितम् , सम्प्रति भिक्षोरेव अन्यमाचार्यो पाध्यायं कर्तुमिच्छुकस्य विधिमाह-'भिक्खू य 'इत्यादि । मूलम्--भिक्खू य इच्छेज्जा अन्नं आयरियउवज्झायं उदिसावित्तए, णो से कम्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं आयरियउवज्झायं उदिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्ण आयरियउवज्झायं उदिसावित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं आयरियउवज्झायं उदिसावित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्णं आयरिय उवज्झायं उदिसावित्तए, नो से कप्पइ तेसिं कारणं अदीवित्ता अण्णं आयरियउवज्झायं उद्दिसावित्तए, कप्पड़ से तेर्सि कारणं दीवित्ता अण्णं आयरियउवज्झायं उदिसावित्तए ॥ सू० २६॥ छाया-भिक्षश्च इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुं नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायं उद्देशयितम, कल्पते तस्य आपृच्छय आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम, ते च तस्य वितरेयुः एव तस्य कल्पते अन्यम् आचार्योपाध्यायम् उद्देशयितुम् , ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यम् आचर्योपाध्यायम् उद्देशयितुम् , नो तस्य कल्पते तेषां कारणम् अदीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम् ॥सू०२६ ॥ ची-'भिक्ख य' इति । भिक्षुश्च इच्छेत् अन्यम् स्वकीयाचार्योपाध्यायात् परं गच्छान्तरवर्तिनम् आचार्योपाध्याय ज्ञानदर्शनचारित्रवृद्धयर्थम् उद्देशयितुम् आत्मनो गुरुत्वेन व्यवस्थापयितुं यदि इच्छेत् तदा नो तस्य कल्पते अनापृच्छय अपृष्ट्वा, कम् ? इत्याह-आचार्य यावत् गणा. वच्छेदकम् अन्यमाचार्योपाध्यायम् उद्देशयितुम् । कथं कल्पते ? इत्याह-कल्पते तस्य आचार्यादिकमापृच्छय अन्यमाचार्योपाध्यायम् उद्देशयितुम् । तत्रापि यदि ते आचार्यादयो वितरेयुः अन्याचार्योपाध्यायस्वीकरणाज्ञा दद्यः एवं तदाज्ञाप्राप्तो सत्यां तस्य कल्पते अन्यमाचार्योपाध्यायम् उद्देशयितुम् , यदि ते नो वितरेयुः अज्ञां न दद्युः तदा नो कल्पते अन्यमाचार्योपाध्यायमुद्देशयितम् । पुनश्चाज्ञाप्राप्तावपि नो तस्य कल्पते कारणम्-अन्याचार्योपाध्यायस्यात्मनो गुरुत्वेन व्यवस्थापने हेतम् अदीपयित्वा-अप्रकाश्य कारणमनिवेद्य अन्यमाचार्योपाध्यायम् उद्देशयितुम् । अपि त कल्पते तस्य भिक्षोः तेषाम् स्वकीयाचार्यादीनां कारणम् अन्याचार्योपाध्यायस्वीकरणे कमपि हेतं दीपयित्वा-प्रकटीकृत्य अन्यमाचार्योपाध्यायस्वीकरणे कमपि हेतुं प्रदर्य अन्यमाचार्योपाध्यायम उद्देशयितुम्-आत्मनो गुरुत्वेन व्यवस्थापयितुं कल्पते इति पूर्वेण सम्बन्धः । अत्रायं भावः-स्वकीयमाचार्योपाध्यायं त्यक्त्वा अन्यमाचार्योपाध्यायमुद्दिशेत् तत्र ज्ञानस्य दर्शनस्य चारित्रस्य च प्रधानकारणेन भवितव्यम्, अन्यथा मनोमालिन्यादिक्षुद्रकारणमाश्रित्य यदि

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536