Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
वृहत्कल्पसूत्रे
कल्पते तस्य भिक्षोनिमित्तमाचार्योपाध्यायस्य अशनं वा पानं वा खाद्यं वा स्वाचं वा-दातुं वा एकवारं वितरीतुम् , अनुप्रदातुं वा पुनः पुनर्वितरीतुं कल्पते इति पूर्वेण सम्बन्धः ॥ सू० ३१ ॥
ननु स श्रमणः 'प्रमादो न कर्त्तव्यः' इति भगवदुपदेशेन संयममागे विचरन्नपि कथं परिहारकत्वं प्राप्तः । इत्यत्राह भाप्यकार:-'जह' इत्यादि । भाष्यम् - जह कंटगाइकिण्णे, खलणं तह संजमे जयंतस्स ।
छलणालोयणमवसं, ठवणं जुत्ते य वोसग्गो ॥३॥ छाया-यथा कण्टकाकीणे स्खलनं तथा संयमे यतमानस्य ।
छलनाऽऽलोचनमवश्यं स्थापनं युक्ते च व्युत्सर्गः ॥३॥ अवचूरी-'जह कंटगाइकिण्णे' इति । यथा कण्टकायाकीर्णे मार्गे गच्छत उपयुक्तस्यापि कण्टको लगति, मादिशब्दात् विषमे वा पथि यथा गच्छन्नुपयुक्तोऽपि कदाचित् प्रस्खलति कृतपरिश्रमोऽपि यथा नदीप्रवाहवेगेन देशान्तरं प्राप्यते, सुशिक्षितोऽपि यथा कदाचित् खड्गेन लाञ्छितो भवति तथा कण्टकादिस्थानीये संयमेऽतिगहनोत्पादनैषणारूपे ज्ञानादिरूपे वा यत. मानस्यापि कस्यचित् श्रमणस्य 'अवसं' अवशम् अवश्यं वा यथास्यात्तथा छलना भवत्येव, छलितश्च श्रमणोऽवश्यमालोचनां कुर्यात् । ततश्च संहननागमादिगुणैर्युक्ताय श्रमणाय स्थापनं परिहारतपःप्रायश्चित्तदानं कर्तव्यम्, तत्र च युक्ते उचिते प्रशस्ते द्रव्यक्षेत्रकालभावे तस्य श्रमणस्य निर्विघ्नतप.कर्मपरिपूर्तये व्युत्सर्गः कर्त्तव्यः, तन्निमित्तमाचार्यादयः कायोत्सर्ग कुर्युः, कायोत्सर्गे माचार्यादय एव वदेयु:-“एयस्स साहुस्स निरुवसग्गनिमित्तं ठामि काउस्सगं जावचोसिरामि” इति । एतस्य साधोनिरुपसर्गनिमित्तं तिष्ठामि (करोमि) कायोत्सर्ग यावत् व्युत्सृजामि, इति च्छाया, तदनन्तरं चतुर्विंशतिस्तवमनुप्रेक्ष्य मनसि चतुर्वारमनुचिन्त्य-'नमो अरिहंताणं' इति प्रकटं पठित्वा चतुर्विंशतिस्तवं मुखेनोच्चार्य वदति यत्-अयं तावत् श्रमण आत्मठिशुद्धिकारकः परिहारतपः प्रतिपद्यते तस्माद् अधप्रभृति अयं न किञ्चिद् युष्मान् वक्ष्यति यथा-परिहारकः साधुभिः सह सूत्रार्थयोः शरीरवृत्तान्तस्य वा प्रतिप्रच्छनं परिपृच्छादिकं संभाषणरूपमालपनं वन्दनकं च न करिष्यतीति, भवन्तोऽपि एनं मा ब्रुवन्तु, श्रमणा अनेन परिहारकेण सह संभाषणं न कुर्युः । एवमन्येष्वपि कार्येषु विज्ञेयम् , यथा-पूर्वाधीतश्रुतपरिवर्तन, कालग्रहणनिमित्तमुत्थापनम् , रात्रौ शयनादुत्याय वन्दनकम् , श्लेप्म-कायिकी-संज्ञाभूमि--मात्रकाणां समर्पणं, वस्त्रादेरुपकरणस्य प्रत्युपेक्षणम् , भिक्षार्थ विचारादौ च गमनं कुर्वतः संघाटकरूपसाधुद्वयेन सह मिलनम् , भक्तस्य पानस्य वा दानम् , एकमण्डल्यां वा संभूय भोजनं चेत्यादि तस्य परिहारकस्य भवद्भिर्न कर्त्तव्यम् । इत्थं तावदात्मार्थ चिन्तयतोऽस्य ध्यानस्य परिहारतपसश्च व्याघातो भवद्भिर्न विधातव्य इति ॥ ३॥
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536