Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 446
________________ चूर्णि-भाष्याऽवचूरी उ० ४ सू० १०-११ वाचनादानयोग्यायोग्यस्वरूपम् ९१ एवमेव एते त्रयः-सवासयितुम्-स्वसमीपे निवासयितुम् उपवेशयितुमपि श्रमणानां न कल्पन्ते । एवं च पण्डकादयः कदाचिद् अनाभोगादिना प्रत्राजिता भवेयुः, पश्चाद् विज्ञाताश्चेद् भवेयुस्तदापि तेपामेतत्सूत्रोक्तस्य शेषपञ्चकस्य-मुण्डापन-शिक्षापणो-पस्थापन-संभोजन-संवासनलक्षणस्य समाचरणं न कर्तव्यमिति भावः । एवं प्रव्राजनवत् पण्डकादित्रयस्य मुण्डापनादिपञ्चक समाचरति श्रमणस्तदा प्रबाजनरूपे पूर्वोक्तपदे प्रोक्ताः प्रवचनोहाहानिन्दादयो दोपा अत्रापि अवगन्तव्या इति । सू० ९ ॥ पूर्व पण्डकादित्रयस्य प्रत्राजनादिपट्कं निषिद्धम् , साम्प्रतमविनीतादित्रयस्य वाचनादानं प्रतिपेधितुमाह-'तओ नो कप्पति' इत्यादि । सूत्रम-तो नो कप्पंति वाइत्तए, तंजहा-अविणीए विगइपडिबद्धे अविओसवियपाहुडे ॥ सू० १० ॥ छाया-प्रयो नो फल्पन्ते वाचयितुम्, तद्यथा--अविनीतः, विकृतिप्रतिवद्धः, अव्य. वशमितप्राभृतः ॥ सू० १०॥ चर्णी-'तो' इति । त्रयस्तावत् वक्ष्यमाणाः नो कल्पन्ते श्रमणानां 'घाइत्तए' इति वाचयितुम् सूत्रवाचनां दातुम् अर्थ वा बोधयितुम् तदुभयं वा, तयथा--'अविणीए' इत्यादि, अविनीत माचार्यादेः पर्यायजेष्ठस्य वा अभ्युत्थानसत्कारसंमानादिविनयवर्जितः १, विकृतिप्रतिवद्वः विकृतिः-दधिदुग्धघतादिरसरूपा, तत्र प्रतिबद्धः-लोलुप• २, अव्यवशमितप्रामृतःअव्यवशमितम्-अनुपशान्त प्रामृतमिव प्रामृतं नरकपातनकुशलं तीवक्रोधलक्षणं येन स तथा, यः परुपभाषणाद्यपरावेऽपि परम क्रोधमावहति क्षमितमप्यपराधं यो वारं वारमुदीरयति स अव्यवशमितप्रामृतः प्रोच्यते तोक्रोधी इत्यर्थः ३ । एते त्रयः पुरुषाः सूत्रार्थतदुभयवाचनां दातु श्रमणानां नो कल्पन्ते इति सूत्रार्थः । एतेषा वाचनादाने इमे दोपाः सम्भवन्ति-यः खलु अविनीत. श्रुतज्ञानरहितोऽपि अहंकारी भवति तदा किं पुनस्तस्य श्रुतलाभे १ । स्वयंनष्टस्य तस्य अन्यानपि नाशयिष्यतः श्रतग्राहणं क्षते क्षारावसेकन्यायेन ऊपरभूमिबीजवपनन्यायेन च इहपरलोकाहितकरं भवति ततस्तादृशाय अविनीताय श्रुतग्राहणं नोचितमेव यथा भुजङ्गस्य पयःपानं विषवर्द्धकमेव भवति तथैव दुर्विनीतस्य श्रुतप्रदानमपि अधिकतरदुर्विनीततामेव वर्द्धयति, अतितप्ततेलादौ जलावसेकः ज्वलल्यग्नौ घृतदान च अग्निज्वालावईकमेव भवति अतो भगवता दुर्विनीताय श्रुतदानं निषिद्धमिति १। विकृतिप्रतिवद्धस्य वाचनादाने दोपा प्रदश्यन्तेयः कश्चित् शरीरेण दृढोऽपि रसलोलुपतया विकृतावेव लोलुपत्वेन तत्र प्रतिबद्धमनस्कतया न सुचारुरूपेण वाचनां गहाति, मनसो विकृती प्रतिबद्धत्वेन स श्रुतग्रहणे मनोयोग दातुं न शक्नोति, मनोयोगं विना श्रतग्रहणं न फलति । न स तपश्चरणं करोति, न तपो विना गृह्यमाणं श्रुतं मनोऽनुकूलं फलं प्रयच्छति प्रत्युत प्रभूतमनर्थं प्रसूते तस्मात् विकृतिप्रतिबद्धं शिष्यं सूत्रार्थतदुभयं न वाचयेदिति

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536