________________
चूर्णि-भाष्याऽवचूरी उ० ४ सू० १०-११ वाचनादानयोग्यायोग्यस्वरूपम् ९१ एवमेव एते त्रयः-सवासयितुम्-स्वसमीपे निवासयितुम् उपवेशयितुमपि श्रमणानां न कल्पन्ते । एवं च पण्डकादयः कदाचिद् अनाभोगादिना प्रत्राजिता भवेयुः, पश्चाद् विज्ञाताश्चेद् भवेयुस्तदापि तेपामेतत्सूत्रोक्तस्य शेषपञ्चकस्य-मुण्डापन-शिक्षापणो-पस्थापन-संभोजन-संवासनलक्षणस्य समाचरणं न कर्तव्यमिति भावः । एवं प्रव्राजनवत् पण्डकादित्रयस्य मुण्डापनादिपञ्चक समाचरति श्रमणस्तदा प्रबाजनरूपे पूर्वोक्तपदे प्रोक्ताः प्रवचनोहाहानिन्दादयो दोपा अत्रापि अवगन्तव्या इति । सू० ९ ॥
पूर्व पण्डकादित्रयस्य प्रत्राजनादिपट्कं निषिद्धम् , साम्प्रतमविनीतादित्रयस्य वाचनादानं प्रतिपेधितुमाह-'तओ नो कप्पति' इत्यादि ।
सूत्रम-तो नो कप्पंति वाइत्तए, तंजहा-अविणीए विगइपडिबद्धे अविओसवियपाहुडे ॥ सू० १० ॥
छाया-प्रयो नो फल्पन्ते वाचयितुम्, तद्यथा--अविनीतः, विकृतिप्रतिवद्धः, अव्य. वशमितप्राभृतः ॥ सू० १०॥
चर्णी-'तो' इति । त्रयस्तावत् वक्ष्यमाणाः नो कल्पन्ते श्रमणानां 'घाइत्तए' इति वाचयितुम् सूत्रवाचनां दातुम् अर्थ वा बोधयितुम् तदुभयं वा, तयथा--'अविणीए' इत्यादि, अविनीत माचार्यादेः पर्यायजेष्ठस्य वा अभ्युत्थानसत्कारसंमानादिविनयवर्जितः १, विकृतिप्रतिवद्वः विकृतिः-दधिदुग्धघतादिरसरूपा, तत्र प्रतिबद्धः-लोलुप• २, अव्यवशमितप्रामृतःअव्यवशमितम्-अनुपशान्त प्रामृतमिव प्रामृतं नरकपातनकुशलं तीवक्रोधलक्षणं येन स तथा, यः परुपभाषणाद्यपरावेऽपि परम क्रोधमावहति क्षमितमप्यपराधं यो वारं वारमुदीरयति स अव्यवशमितप्रामृतः प्रोच्यते तोक्रोधी इत्यर्थः ३ । एते त्रयः पुरुषाः सूत्रार्थतदुभयवाचनां दातु श्रमणानां नो कल्पन्ते इति सूत्रार्थः । एतेषा वाचनादाने इमे दोपाः सम्भवन्ति-यः खलु अविनीत. श्रुतज्ञानरहितोऽपि अहंकारी भवति तदा किं पुनस्तस्य श्रुतलाभे १ । स्वयंनष्टस्य तस्य अन्यानपि नाशयिष्यतः श्रतग्राहणं क्षते क्षारावसेकन्यायेन ऊपरभूमिबीजवपनन्यायेन च इहपरलोकाहितकरं भवति ततस्तादृशाय अविनीताय श्रुतग्राहणं नोचितमेव यथा भुजङ्गस्य पयःपानं विषवर्द्धकमेव भवति तथैव दुर्विनीतस्य श्रुतप्रदानमपि अधिकतरदुर्विनीततामेव वर्द्धयति, अतितप्ततेलादौ जलावसेकः ज्वलल्यग्नौ घृतदान च अग्निज्वालावईकमेव भवति अतो भगवता दुर्विनीताय श्रुतदानं निषिद्धमिति १। विकृतिप्रतिवद्धस्य वाचनादाने दोपा प्रदश्यन्तेयः कश्चित् शरीरेण दृढोऽपि रसलोलुपतया विकृतावेव लोलुपत्वेन तत्र प्रतिबद्धमनस्कतया न सुचारुरूपेण वाचनां गहाति, मनसो विकृती प्रतिबद्धत्वेन स श्रुतग्रहणे मनोयोग दातुं न शक्नोति, मनोयोगं विना श्रतग्रहणं न फलति । न स तपश्चरणं करोति, न तपो विना गृह्यमाणं श्रुतं मनोऽनुकूलं फलं प्रयच्छति प्रत्युत प्रभूतमनर्थं प्रसूते तस्मात् विकृतिप्रतिबद्धं शिष्यं सूत्रार्थतदुभयं न वाचयेदिति