SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्रे भावः २ । साम्प्रतमव्यवशमितप्राभृतं व्याचष्टे-यः स्वल्पेऽपि परुषभाषणादों अपराधेऽत्यन्तक्रोधसमुद्घातं याति, एवं क्षामितो न प्रशाम्यति प्रत्युत क्षामितमप्यपराधजातं पुनः पुनः समुदीरयति स खलु अव्यवशमितप्राभृतो व्यपदिश्यते, तस्य वाचनादाने ऐहलौकिकस्नेहसत्कारादिपरित्यगः, पारलौकिकवैरानुवन्धकर्मवन्धसंभवश्चेति द्विधाप्यहितकरं तद्वाचनादानं संपद्यते इति न तादृशाय वाचना दातव्येति भावः ॥ सू० १०॥ पूर्वसूत्रे अविनीतादित्रितयस्य श्रुतार्थवाचनादान प्रतिषिद्धम् , सम्प्रति तद्वैपरीत्येन विनीतादित्रितयस्य तद्वाचनादानमनुज्ञापयति-तओ कप्पंति वाइत्तए' इत्यादि । सूत्रम्-तओ कप्पंति चाइत्तए, तंजहा-विणीए, नोविगइपडिवरे, विओसवियपाहुडे ॥ सू० ११॥ छाया-त्रयः कल्पन्ते वाचयितुम्, तद्यथा-विनीतः, नोविकृतिप्रतिवद्धः, व्यव. शमितप्राभृतः ॥ सू० ११॥ चूर्णी-'तओ' इति । त्रयः पुनर्वक्ष्यमाणस्वरूपाः शिष्याः वाचयितुं-सूत्रार्थों ग्राहयितुं श्रमणानां कल्पन्ते । तद्यथा-विनीतः आचार्यादेवन्दनादिविनययुक्तः, नोविकृतिप्रतिबद्धः घृतादिरसलोलुपतावर्जितः, व्यवशमितप्राभूतः-व्यवशमितम्-क्षमापनादिना उपशमितं प्राभतं नरकपातनोपायनमिव प्राभृतं तीव्रक्रोधलक्षणं यस्य स व्यवपशमितप्रामृतः स्वापराधक्षमापन-परापराधक्षमनसमर्थः उपशान्तक्रोध इत्यर्थः । एते त्रयः विनीत-विकृत्यप्रतिबद्ध-व्यपशमितप्रामृताः पुरुषाः श्रुतार्थों वाचयितुं श्रमणानां कल्पन्ते इति सूत्राशयः । विनयेन अभ्यस्तीकृता विद्या लोकद्वये फलवती भवति, तत्रास्मिन् लोके साधुजनसमाजराजसभादौ विनयगृहीतविद्यया समादृतः पूजितश्च भवति, यशःकीर्ति-ख्याति-सम्मान-प्रतिष्ठादिकं च लभते, परलोके च विनयप्राप्तविद्यया सम्यगूज्ञानदर्शनचारित्रलक्षणरत्नत्रयविभूषितो लब्धिसंपन्नो भगवदाज्ञाराधकः सन् निःश्रेयसं प्राप्नोति । विकृत्यप्रतिवद्धो हि घृतादिरसलोलुपतारहितत्वेन एकाग्रमनसा श्रुतार्थों गृह्णाति, तेन तत् श्रुतार्थग्रहणं हृदये सुचारुतया परिणमति, ततः सः सम्यक्तया ज्ञानदर्शनचारित्राराधको भवति, तस्य श्रुतार्थवाचने वाचनादातुस्तीर्थकराज्ञाभङ्गादयो दोषा न भवन्तीति । एवं व्यवशमितप्रामृतस्यापि उपशान्ततीवक्रोधत्वेन शान्तमनोभावस्य प्रदत्ता वाचना सम्यक्तया परिणमति तेन सा मुगतिबोधिलाभादिकमामुष्मिकं फलं प्रापयतीति सूत्रोक्तानां त्रयाणां सूत्रार्थतदुभयवाचना दानं श्रमणानां कल्पते, यथा उर्वराभूमौ उसानि वीजानि फलितानि भवन्ति तथैवेतेषां श्रुतार्थदानं सफलं भवतीति भावः ॥ ननु पूर्वसूत्रे अविनीतादित्रयाणां वाचनादानस्य प्रतिषिद्धतया तेनैव कथनेन अर्थापत्तिन्यायात् तविपरीतानां विनीतादीनां वाचनादानं स्वयं सिद्धमेव, विपक्षार्थस्यानुक्कस्यापि सिद्धिलाभा
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy