________________
चूर्णि-भाष्याऽवचूरी उ० ४ सू० १३-१४ दुःसंज्ञाप्य सुसंज्ञाप्यस्वरूपम् ९३ दितीदं सूत्रं व्यर्थमेव प्रतिभाति, तत्राह-नैवम् , शास्त्रशैली एयैव यत् प्रकृतसूत्रविवक्षितार्थस्यार्थापत्त्या लब्धत्त्वेऽपि विपक्षः साक्षादुच्यते, तथा लब्धोप्यर्थः प्रपञ्चितज्ञविनेयजनानुग्रहाय साक्षा. दभिधीयते, यथा-उत्तराध्ययनस्य प्रथमाध्ययने द्वितीयगाथायां “आणानिदेसकरे इत्यादिना विनीतस्वरूपप्रतिपादनादर्थापत्तिलब्धमप्यविनीतस्वरूपमत्रैव तृतीयगाथायाम्-"आणाअणिदेसकरे" इत्यादिना पुनः साक्षादभिहितम् ।
पुनश्च - विनेया नानादेशीया विभिन्नमतयो वक्रजडादयो भवन्ति ते चाविनीतादीनां वाचनादाननिषेधसूत्रेण एतावन्तमेवार्थ गृह्णन्ति यत् भगवता अविनीतादीनां वाचनादानं निषिद्ध किन्तु विनीतादीनां वाचनादानं कुत्र प्रतिपादितम् ? तेन न कस्यापि वाचना प्रदातव्या "आणा धम्मो" इतिवचनात् । इत्यादिकारणाद् विपक्षस्य साक्षात्कथनमुचितमेव, 'न तीर्थकरा व्यर्थ भाषन्ते' इति वचनात् ॥ सू० ११॥
पूर्वमविनीतादीनां त्रयाणां श्रुतदान प्रतिषिद्धम्, तद्वैपरीत्येन विनीतादीनां च श्रुतदानमनुज्ञापितम् । सम्प्रति दुष्टादीनां त्रयाणां श्रुतदानं प्रतिषेधयितुमाह-'तओ दुस्सन्नप्पा' इत्यादि ।
सूत्रम्-तओ दुस्सन्नप्पा पण्णत्ता, तंजहा-दुट्टे, मूढे, बुग्गहिए ।। सू०१२ ।। छाया-त्रयो दुःसंज्ञाप्याःप्रज्ञप्ताः, तद्यथा-दुष्टः, मूढः, व्युद्ग्राहितः ॥ सू० १२ ॥
चूर्णी-'तओ दुस्सन्नप्पा' इति । त्रयस्तावत् वदयमाणाः पुरुषाः दुःसंज्ञाप्याः दु:दुःखेन कष्टेन संज्ञाप्यन्ते प्रतिबोध्यन्ते इति दुःसंज्ञाप्याः दुष्प्रतिवोध्याः प्रज्ञप्ताः कथितास्तीर्थकदादिभिः, एते वक्ष्यमाणास्त्रयो बोध्यमाना अपि बोधरहिता एव भवन्ति, तानेव त्रीनाह-'तं जहा' तद्यथा-दुष्टः-प्रज्ञापकं प्रतिपाद्यतत्त्वं वा प्रति द्वेषयुक्तो भवति, स च न प्रज्ञापनीयः श्रमणैः, तस्य द्वेषबुद्धया उपदेशाप्रतिपत्तेः । स च पूर्व पाराञ्चिकसूत्रे यथा वर्णितस्तथाsत्रापि ज्ञातव्यः । एवं मूढः गुणदोषज्ञानविवेकविकलः तस्य गुणाधनभिज्ञतया तत्त्वाप्रतिप्रत्तेः, एतादृशस्य प्रज्ञापनमनर्थकमेवेति भावः । एवमेव व्युग्राहितः वि-विपरीतक्रमेण उद्ग्राहःग्रहणप्रकारो यस्य स व्युद्ग्राहितः दृढीभूतविपरीतावबोधः मिथ्याशास्त्रश्रुतिप्रतिबद्धत्वेन विपरीतावबोधयुक्त इत्यर्थः ३ । एते त्रयो दु.संज्ञाप्यत्वात् श्रुतार्थवाचनादानायोग्या इति ते श्रमणैर्न प्रज्ञापनीयाः ॥ सू० १२ ॥
पूर्व दुष्टादित्रयाणां श्रुतसंज्ञापना प्रतिषिद्धा, सम्प्रति दुष्टादित्रयवैपरीत्येन अदुष्टादित्रयाणां श्रुतसंज्ञापनां प्रतिपादयति-तओ सुसण्णप्पा' इत्यादि ।
सूत्रम्-तओ सुसण्णप्पा पण्णत्ता, तंजहा-अदुट्टे, अमूढे, अव्युग्गाहिए। सूत्र १३ ।। छाया-त्रयः सुसंज्ञाप्याः प्रज्ञप्ताः, तद्यथा-अदुष्टः, अमूढः अव्युद्ग्राहितः। सू०१३॥
चूर्णी-'तओ सुसण्णप्पा' इति । यतस्तावत् वक्ष्यमाणाः पुरुषाः सुसंज्ञाप्याः सुसुखेन संज्ञाप्यन्ते प्रतिबोध्यन्ते ये ते सुसंज्ञाप्याः अनायासेनैव श्रुतं प्रतिबोधयितुं शक्याः