________________
पृहत्कल्पसूत्रे तत्र दृष्टिक्लीवः-यस्यानुरागतो विवस्त्राद्यवस्थास्थितां स्त्रियं दृष्ट्वा मेहनं गलति सः १, शब्दक्लीव.-यस्य सुरतादिशब्दश्रवणेन मेहनं गलति सः २, आदिग्धक्लीवः यस्य चित्तविक्षेपेणोपगूढस्य मेहनं गलति सः ३, निमन्त्रणक्लीवः-यः कयाचित् स्त्रिया निमन्त्रिते व्रतं रक्षितुं न शक्नोति सः ४ । एष चतुर्विधोऽपि क्लीयोऽप्रतिसेवमानोऽपि वेदनिरोधेन वेदोदयवशात् नपुंसकतया परिणमति । एते त्रयः प्रव्राजयितुं न योग्या इति भावः । यद्यनाभोगलोभाद्यभिभूततया पण्डकादयः प्रव्राजिता भवेयुस्तदा प्रवचनोड्डाहप्रवचनप्रवादादयोऽनेके दोषाः समापतेयुस्ततो नैते प्रव्राजनीया इति । यद्यपि वालवृद्धादिभेदाद् विंशतिसंख्यकाः प्रव्राजयितुमयोग्याः ते च उपलक्षणाद् ग्राह्याः । प्रकृते गुरुतरदोषदुष्टत्वात् त्रयः पण्डकादयोऽत्र प्रव्राजयितुमयोग्या अधिकृता अवसेयाः । ते विंशतिविधा यथा
"वाले १, वुड्ढे २, नपुंसे य, जड्डे ४ कीवे ५ य वाहिए ६ । तेणे ७, रायावगारी ८ य, उम्मते ९ य असणे १० ॥१॥ दासे ११ दुढे १२ य मुढे १३ य, अणत्ते १४ जुंगिए १५, इय । अवोदए १६, य भयए १७, सेहनिप्फेडिए १८ इय ॥२॥ गुचिणी १९, वालवच्छा २०, य, पवावेउं न कप्पई ॥" छाया-वालो १, वृद्धो २, नपुंसकश्च ३, जडुः ४, क्लीवश्च ५, व्याधितः ६ । स्तेनः ७, राजापकारी ८, च, उन्मत्तश्च ९, अदर्शनः १० ॥१॥ दासः ११, दुष्टश्च १२, मूढश्च १३, अनत्त १४, जुङ्गिक १५, इति । अवोधकश्च १६, भयक १७, शैक्षनिष्फेटित १८ इति ॥ २॥ गुर्विणी १९, वालवत्ला २०, च प्रव्राजयितुं न कल्पते ॥
तत्र-अदर्शन:-अन्धः। 'अणत्तो' अनत्ते:-ऋणपीडित.। जुङ्गिकः-जात्यङ्गहीनः । अबोधकःवुद्धिहीनः । शैक्षनिप्फेटितः केनाप्यपहृत इति । एतेषामत्र नाधिकार इति सूत्रकारेण न गृहीता इति ॥ सू० ४ ॥
___ एव' इति । एवम् अनेनैव प्रचाजनप्रकारेणैव एते पूर्वोक्तास्त्रयः मुण्डापयितुम्शिरोलोचेन लुञ्चितुं श्रमणानां न कल्पन्ते ॥ सू० ५ ॥ तथा शिक्षापयितुम्-ग्रहणासेवनशिक्षया श्रुताध्यापनप्रत्युपेक्षणादिसमाचारी ग्राहयितुं न करपन्ते । तथा श्रुताध्यापनरूपा ग्रहणशिक्षा, प्रत्युपेक्षणादिरूपा-आसेवन शिक्षा बोध्या, एतद् द्वयमपि पण्डकादित्रयाय दातु न कल्पन्ते इति भाव. ॥ सू० ६ ॥ एवम् उपस्थापयितुम् एते त्रयो महानतेपु पञ्चसु, छेदोपस्थापनीयेषु व्यवस्थापयितुं श्रमणानां न कल्पन्ते ॥ सू० ७॥ एवम् एते त्रय संभोक्तम्एकमण्डन्यां भोजनादिकं कर्तुम् , तैः सह श्रमणानां न कल्पते इति भावः, ।। सू० ८ ॥