________________
चूर्णिभाष्याऽवचूरो उ० ४ सू० ३-९
प्रव्राजनाद्ययोग्यशिष्यस्वरूपम् ८९ छाया-त्रयः अनवस्थाप्याः प्रशप्ताः, तद्यथा-साधर्मिकाणां स्तैन्यं कुर्वाणः, अन्यधार्मिकाणां स्तैन्यं कुवार्णः, हस्तातालं ददत् ॥ सू० ३॥
चूर्णी-'तओ' इति । त्रयः अग्रे वक्ष्यमाणस्वरूपाः तावत् अनवस्थाप्याः अपराधविशेषसमाचरणेन तत्क्षणादेव पुनव्रतेषु अवस्थापयितुम् अयोग्याः प्रज्ञप्ताः, कथिताः तीर्थकरगणधरादिभिराख्याताः, के ते? इत्याह-'तंजहा' इत्यादि, तद्यथा ते यथा-साधर्मिकाणां समानो धर्मो येषां ते सधर्माणः, त एव साधर्मिकाः समानो धर्मो वाऽस्ति येषामिति साधर्मिकाः श्रमणाः श्रमण्यो वा तेषां 'तेणं' स्तैन्यं स्तेनस्य भावः कर्म वा स्तैन्यं चौर्यम्-तत्सत्कस्य उत्कृष्टोपधेः शिष्यादेर्वा अपहरणं 'करेमाणे' कुर्वाणः स्वयं कुर्वन् उपलक्षणात् अन्यद्वारा कारयन् , कुर्वन्तमन्यं वाऽनुमोदमानः साधुः अनवस्थाप्यो भवतीति भावः १ । 'अन्नधम्मियाणं' अन्यधार्मिकाणाम् अन्यो जिनोक्तातिरिक्तो धर्मो येषां ते अन्यधर्माणः, यद्वा अन्य चासौ धर्मश्च अन्यधर्मः, सोऽस्ति येपामिति अन्यधर्माणः, मत्वर्थे इकण्प्रत्यये अन्यधार्मिका:-दण्डिशाक्यादयो गृहस्था वा तेषां सत्कस्य तदधीनस्य उपध्यादेः स्तैन्यं कुर्वाणः साधुरनवस्थाप्यो भवति २ । तृतीयः 'हत्थादाणं दलमाणे' हस्तातालं ददत् , हस्तातालम् हस्तेन हस्तस्य अन्यवस्तुनो वा आताडनं हस्तातालः तं ददत्-कुर्वन् उपलक्षणात् यष्टिमुष्टिलकुटादिभिरात्मानं परं प्रहरन् किञ्चिद्वस्तुजातं वा ताडयन् साधुरनवस्थाप्यो भवति, स अनवस्थाप्यप्रायश्चित्तभागी भवति, तत्प्रायश्चित्तस्यानवस्थाप्याभिधानात् ॥ सू० ३ ॥
पूर्वमनवस्थाप्यः प्रोक्तः, स च सद्योऽनाचरिततपोविशेषो भावलिङ्गरूपेषु महाव्रतेषु न स्थाप्यतेऽतोऽसौ अनवस्थाप्यः प्रोच्यते, अयं पूर्वसूत्रे वर्णितः । तत्प्रसङ्गात् पण्डकादिदिविधेऽपि द्रव्यभावलिङ्गे स्थापयितुं न योग्यो भवतीत्यत्र पण्डकादिः प्रतिपाद्यते-'तमो नो कप्पंति' इत्यादि ।
सूत्रम्-तओ नो कप्पंति पव्वावित्तए तंजहा-पंडए १, वाइए २, कीवे ३, ॥सू०४॥ एवं सुंडावित्तए । सू०५॥ सिक्खावित्तए ।। सू० ६॥ उपहावित्तए ॥ सूत्र ७॥ संभुंजित्तए । सू० ८॥ संवासित्तए ॥ सू० ९॥
छाया-त्रयो नो कल्पन्ते प्रव्राजयितुम् , तद्यथा-पण्डक १ वातिकः २, क्लीवः३ ॥सू०४॥ एवं मुण्डापयितुम् ॥सू०५॥ शिक्षापयितुम् ॥ सू० ६॥ उपस्थापयितुम् ॥ सू०७॥ संभोक्तुम् ॥सू० ८॥ संवासयितुम् ॥ सू० ९॥
चूर्णी-'तओ' इति । त्रयो वक्ष्यमाणाः पुरुषास्तावत् नो कल्पन्ते, किमित्याह-'पन्चावित्तए' प्रवाजयितु प्रव्रज्यां ग्राहयितुं दातुं न योग्या इत्यर्थः, के ते ? इत्याह-'तंजहा' तद्यथा-ते यथा-पण्डक. जन्मनपुंसकः १, वातिकः वातूजः वातरोगी–वेदोदयसहनाऽक्षमः २, क्लीबः असमर्थः कातर इत्यर्थः, क्लीबस्तावत् दृष्टि-शब्दा-ऽऽदिग्ध-निमन्त्रणक्लीबभेदाच्चतुर्विधः,
१२ ।