________________
पृहत्कल्पसूत्र कान् यथारुचि भुक्त्वा अवशिष्टर्मोदकैः पात्रं पूरयिच्वा उपाश्रये समागतः । प्राभातिके चावश्यके---‘एवंविधः स्वप्नो मया दृष्टः' इति प्रकटितवान् , ततश्च प्रभाते मोदकपरिपूर्ण पात्रं दृष्ट्वा माचार्यैतिं यदयं स्त्यानर्द्धिनिद्रावानिति २ । कुम्मकारदृष्टान्तो यथा-कश्चित् कुम्भकारः कापि गच्छे प्रबजितः, तस्य कदाचिद् रात्रौ स्त्यानद्धिनिद्रा संजाता, स च पूर्वाचरित्तमृत्तिकापिण्डच्छेदनाभ्यासादुपाश्रयान्निर्गत्य मृत्तिकाखनौ गत्वा तत्रतो मृत्तिकापिण्डा आनीय उपाश्रये स्थापिताः, प्रभाते तान् दृष्ट्वाऽऽचार्येण ज्ञातं यदय त्यानचिनिद्रावानिति ३ । दन्तदृष्टन्तो यथाकश्चित् श्रमणः गहस्थावस्थायामभिमुखमापतता हस्तिना आक्रान्तः पलायमानः कथञ्चिदुन्मुक्तः स उदीर्णत्यानर्द्धिरुत्थाय गजशालायां गत्वा हस्तिदन्तौ उत्पाट्य उपाश्रयस्य बहिः प्रदेशे संस्थाप्य पुनरपि सुप्तः । प्रभाते स्वप्नमालोचितवान् यदहं स्वप्ने हस्तिदन्तौ उत्पाटितवान् प्रकटितवांश्च स्वप्नम् , तत आचार्य उपाश्रयबहिःप्रदेशे हस्तिदन्ता विलोक्य निर्णीतवान् यदयं स्त्यानर्द्धिनिद्रावानिति ४ । वटशाखामञ्जनदृष्टान्तो-यथा -कश्चित् श्रमणो भिक्षार्थं पर्यटन कुत्रचित् मध्यमार्गवर्तिन एकस्य वटस्य शाखया शिरसि आघट्टितः सन् अत्यन्तं परितप्तान्तः करणो वटवृक्षोपरि प्रद्वेषमुपगतस्तदध्यवसायपरिणतश्च प्रसुप्तवान् । ततः उदीर्णस्त्यानर्द्धिश्चोत्थाय तत्र गत्वा वटवृक्षमुन्मूल्य तदीयशाखामानीयोपाश्रयोपरि स्थापितवान् , प्रभाते चावश्यककायोत्सर्गत्रिके कृते सति पूर्वोक्तरीत्या आचार्यान् प्रति स्वप्नमालोचितवान् । तत आचार्याः प्रभाते दिगवलोकनं कुर्वन्तोऽन्यत आनीय संस्थापितां वटवृक्षशाखां दृष्ट्वा निर्णीतवन्तः यदयं स्त्यानर्द्धिनिद्रावानिति ५ । एतादृशं स्त्यानर्द्धिमन्तं श्रमणमेवं प्रज्ञापयेत्-सौम्य ! साधुलिङ्गं त्यज, तव चारित्रं नास्तीति सानुनयमाचार्येण तस्य लिङ्गं त्यानयेदिति। - __व्याख्यातः प्रमत्तपाराञ्चिकः, सम्प्रति अन्योन्यकुर्वाणो व्याख्यायते-अन्योन्यं कुर्वाणः पाराञ्चिक इति, अन्योन्यं परस्परं यत् करणं मुखपायुप्रभृतिप्रयोगेणंऽब्रह्मसेवनं तत्कुवार्णः, साधुः साधुना सह मुखपायुप्रयोगेण मैथुनचेष्टां कुर्वाणः पाराञ्चिकः, साध्वी साध्या सह हस्तपादाङ्गलिकर्मादिप्रयोगेण मैथुनचेष्टां कुर्वती पाराञ्चिका भवतीति विज्ञेयम् । यदि केनाऽपि साधुना बुद्धिवैपरीत्यवशाद् एतदाचरितं भवेत् , ततः शुभपरिणामोदयेन पश्चात्तापसंतप्तान्तःकरणो विशिष्टगुणवान् यदि 'पुनरेतादृशमपराधं न करिष्यामि' इति सद्भावनया पुनरकरणाय कृतनिश्चयो भवेत्तदा स तपःपाराञ्चिकः कथ्यते इति भावः । भा० गा० ५॥ सू० २ ॥
पूर्वसूत्रे पाराञ्चिक्रप्रायश्चित प्रतिपादितम्, सम्प्रति अनवस्थाप्यप्रायश्चितं प्ररूपयितुमाह'तओ अणवट्टप्पा' इत्यादि ।
मूत्रम्-तमो अणबहप्पा पण्मचा, तंजहा-साहम्मियाणं० तेण्णं करेमाणे, अन्नधम्मियाणं तेण्णं करेमाणे, इत्यादालं दलमाणे ॥ मू० ३॥