________________
पणि-भाण्या-वचूरी उ०४ सू० २
पाराञ्चिकस्वरूपम् ८७
ञ्चिकस्तत्रः प्रथमः प्रतिपादितः । १ । द्वितीयं प्रमत्तपाराञ्चिकं विवृणोति-'पंचविहो' इत्यादि यः प्रमत्तपाराञ्चिकः, स तु पञ्चविधीभवति प्रमादस्य पञ्चविधत्वात् तथाहि-मद्यप्रमत्तः १, विषयप्रमत्तः २, कपायप्रमतः ३, विकथाप्रमत्तः ४, निद्राप्रमत्तश्चेति ५ । तत्र मद्यप्रमत्तः मद्यपानोद्भूतप्रमादवान् १, विषयप्रमत्तः-श्रोत्रादिविषयलोलुपत्वेन प्रमादवान २, कषायप्रमत्तःकपायाः क्रोधमानमायालोभाश्चत्वारः, तेवन्यतमकषायवशेन प्रमादवान् ३, विकथाप्रमत्तःविकथाश्चतस्रः-स्त्रीकथा१, देशकथा २, भक्तकथा ३, राजकथा ४, तासु आसक्तत्वेन प्रमादवान् ४, निद्राप्रमत्तः, तत्र निद्रा पञ्चविधा-निद्रा १, निद्रानिद्रा २, प्रचला ३, प्रचलाप्रचला ४, स्त्यानद्धिश्चेति ५ । निद्राचतुष्टयस्य लक्षणं यथा
"मुहपडिवोहो निदा १, दुहपडिवोहो य निहनिद्दा य २ । पयला होइ ठियस्स ३, पयलापयला उ चकमओ ४ इति ॥१॥ सुखप्रतिवोघो निद्रा १, दुःखप्रतिबोधश्च निद्रानिद्रा २ । प्रचला भवति स्थितस्य ३, प्रचलाप्रचला तु चंक्रमतः ॥ २ ॥ इति प्रच्छाया ।
आसां चतसृणां निद्राणां लक्षणं प्रोक्तम् , अत्र पाराञ्चिकस्य प्रस्तुतत्वात्स्त्यानर्द्धिनिद्रयाऽधिकाइति स्त्यानर्द्धिर्भाव्यते-स्त्यानद्धिस्तावत् दर्शनावरणीयप्रबलकर्मोदयात् स्त्याना कठिनीभूता आच्छन्ना ऋद्धिः चैतन्यशक्तिर्यस्यां सा त्यानःि, यथा घृते जले च त्याने कठिनीभूते सति न तत्र द्रवत्वं किञ्चिदुपलभ्यते तथा चैतन्यऋचामपि स्त्यानायां सत्यां न किञ्चिदपलभ्यते । अस्यां निद्रायां प्राप्तायां मनुष्यो तदवस्थायामेव नानाविधानि महान्ति बलसाध्यानि दुश्चरणानि समाचर्य पुनरागत्य स्वपिति, स्त्यानर्द्धिमतो हि वासुदेवबलादर्घबलं भवति तीर्थकृदादयः प्रज्ञापयन्ति तत्त प्रथमसंहननिनमपेक्ष्य प्रोक्तम् , सम्प्रति तु सामान्यजनापेक्षया द्विगुणं त्रिगुणं चतुर्गुणं वा बल स्त्यानद्धिमतो भवतीति बोध्यम् ।
एवं पिशित१-मोदक२-कुम्भकार३-दन्त४-बटशाखा-भञ्जनादि ५-कायः, स्यानद्विनिद्रावानयमिति परिज्ञाय प्रमत्तपारा श्चिकं निर्णयेत् । तत्र प्रथमं पिशितदृष्टान्तो यथा-कश्चित श्रमणः पूर्व गृहस्थावस्थायां पिशिताशी आसीत् तेन च पश्चात् प्रव्रज्या गृहीता, एष कदाचित् कचित् दृष्टपुष्टं महिष दृष्ट्वा सजाततन्मांसभक्षणाभिलाषः सन् एकदा रात्रौ स्यानर्द्धिनिद्रायां तस्मिन् महिषमण्डले गत्वा अन्य महिषं व्यापाथ भुक्तवान् , शेषं तन्मांसमुपाश्रये मानीय तेन स्थापितम् , आचार्येण सर्वं ज्ञात्वा निर्णीतं यदयं स्यामर्द्धिनिद्रावानिति । एषा स्त्यानचिनिद्रा । १। मोदकदृष्टान्तो यथा-कश्चित् श्रमणः भिक्षाथै पर्यटन कस्यचिद् गृहस्थस्य गृहे मोदकं भक्तं दृष्ट्वा तद्ग्रहणार्थ याचनायां कृतायामपि स मोदकं न लब्धवान् , ततश्च तदलामे तदध्यवसायपरिणत एव सुप्तवान् । रात्रौ तद्गृहे गत्वा गृहस्य कपाटौ त्रोटयित्वा मोद