________________
बृहत्कल्पसूत्रे कृतवन्तस्तदपि न समीचीनम् । इत्यादिरूपमवणे तीर्थकृतां यो भाषते स पाराच्चिकप्रायश्चित्तस्थानमापद्यते । एवं प्रवचनश्रुताचार्यादिविषयाऽऽशातनाप्रकाराः स्वयमूहनीयाः, एप आशातनापाराञ्चिको बोध्यः । द्वितीयः प्रतिसेवनापाराञ्चिकः । पाराञ्चिका अस्मिन्नेव सूत्रे प्रतिपादितास्त्रयो भवन्तीति, ।। सू० २ ।। पाराञ्चिकानेवविशदयति भाष्यकार:-'दुविहो' इत्यादि ।
भाष्यम् -दुविहो दुट्ठो वुत्तो, पंचविहो होइ जो पमत्तो उ । अन्नोन्नं कुवा, णेगविहो एस णायब्बो ॥ गा० ५॥ छाया—द्विविधो दुष्ट उक्तः पञ्चविधो भवति य. प्रमत्तस्तु । अन्योन्यं कुर्वाणः अनेकविध एष ज्ञातव्यः ॥ ५ ॥
अवचूरी--'दुविहो' इति । अत्र प्रथमो दुष्ट पाराञ्चिको द्विविधः प्रोक्तः तथाहि-कषायदुष्टः विषयदुष्टश्चेति । तत्र कषायदुष्टो द्विविधो भवति-स्वपक्षदुष्टः परपक्षदुष्टश्च, अत्र चतुर्भङ्गी भवति तथाहि-स्वपक्षः स्वपक्षे, स्वपक्षः परपक्षे २, परपक्षः स्वपक्षे ३, परपक्षः परपक्षे ४ । तत्र स्वपक्षः स्वपक्षे एकः साधुरन्यसाधूपरि कषायं करोति, अत्र दृष्टान्तः सर्षपपत्रशाकभोक्तमृतगुरुदन्तभञ्जकः शिष्यः, तथाहि-शिष्येण भिक्षायां सर्षपशाकः प्राप्तः, तेन निमन्त्रितो गुरुः सर्व शाकमाहृतवान् तेन तस्य मनसि कोपः समुद्भूतः, यदनेन मद्गुरुणा सर्वोऽपि शाको भुक्त, गुरुणा क्षामितोऽपि नोपशान्तः सन् गुरुदन्तमञ्जनप्रतिज्ञां कृतवान् तद् ज्ञात्वा गुरुभक्तप्रत्याख्यानेन कालधर्म प्राप्तः, ततश्च स मृतगुरुमुखादन्तान् वोटितवान् कथितवांश्च-एत एव तव दन्ता सर्व सर्पपशाकं भुक्तवन्त इति प्रथमो दृष्टान्तः १ । एवमेव द्वितीय उज्ज्वलसदोरकमुखवत्रिकाथ गुरोगैलग्रहणं कृत्वा गुरुं मारितवान् २। एवमन्येऽप्येवं प्रकारा दृष्टान्ता विज्ञेयाः । इति प्रथमो भङ्गः।। द्वितीयः स्वपक्षः परपक्षे यथा कस्यचित् साधोहस्थावस्थायां केनापि सह वादो जातस्तत्र स पराजितो भूत्वा प्रव्रजितः । ततोऽवसरं प्राप्य स कयाचिद् युक्त्या पूर्वकषायोदयेन तं मारितवान । इति द्वितीयो भङ्ग. २ । तृतीयः-परपक्षः स्वपक्षे यथा-गृहस्थावस्थायां केनापि वादे पराजितः एकः, यस्तं पराजितवान् स प्रव्रजितः, ततः स पूर्व पराजितो गृहस्थः प्रव्रजितं तं जयिनं साधु केनचिदपायेन मारितवान् एघ तृतीयोभङ्गः ३ । चतुर्थः-परपक्ष' परपक्षे-गृहस्थो गृहस्थं मारयति, इति चतुर्थों भङ्गः ४ । एष भगः साधौ न घटते । उक्त. कषायदुष्टः, सम्प्रति विषयदुष्टं विवृणोति-अत्रापि स्वपक्षपरपक्षमाश्रित्य पूर्ववदेव चत्वारो भङ्गा भवन्ति-यथा-स्वपक्षः स्वपक्षे विषयदुष्टः, इति प्रथमों भङ्गः १ । एवं चत्वारोऽपि भङ्गाः पूर्ववदेव कर्त्तव्याः ४ । तत्र-श्रमणः श्रमण्यामध्युपपन्नः स्वपक्षः स्वपक्षे विषयदुष्टः १, श्रमणो गृहस्थस्त्रियामध्युपपन्नः स्वपक्षः परपक्षे विषयदुष्टः २। गृहस्थः श्रमण्यामध्युपपन्नः परपक्षः स्वपक्षे विषयदुष्टः ३। गृहस्थो गृहस्थस्त्रियामध्युपपन्नः परपक्षः परपक्षे विषयदुष्टः, ४ । एष भङ्गः श्रमणपक्षे न घटते,इति चतुर्थो भङ्गः । एष द्विविधो दुष्टपारा