________________
चूर्णि भाष्या ऽवचूरी उ० ४ सू० २
पाराञ्चिक-:
- स्वरूपम् ८५
पूर्वसूत्रे अनुद्धांताख्यगुरुकारोपणां प्रोक्ता, संम्प्रतमपि गुरुकांया एवं पाराञ्चिकारख्यारोपण प्रतिपादयितुमाह, अथवा पूर्वसूत्रे तपोऽर्दा शोधिः प्रोक्ता, इदानीं छेदाह शोधिः प्रतिपाद्यते'तो' इत्यादि ।
सूत्रम् - तओ पारंचिया पण्णत्ता, तं जहा दुट्ठे पारंचिए १, प्रमते पारंचिए २, अन्नमन्नं करेमाणे पारंचिए ३ ॥ सू० २ ॥
छाया[ त्रयः पाराञ्चिकाः प्रज्ञप्ता, तद्यथा-दुष्टः पाञ्चिकः १, प्रमत्तः पाराञ्चिकः २, अन्योन्यं कुर्वाणः पाराञ्चिकः ॥ सूँ० २ ॥
"
चूर्णी—'तओ' इति । त्रयः त्रिसंख्यकाः पराञ्चिकाः पाञ्चिकप्रायंश्चित्तयोग्याः प्रज्ञप्ताः तीर्थकरादिभिः प्ररूपिताः । पाराञ्चिक इति कौऽर्थस्तंत्रांह - येन प्रायश्चित्तेन परिशोधितेन श्रमणः पारं-संसारसमुद्रस्य तीरम् मोक्षरूपम् अञ्चतिं गच्छेति तत् परिश्चिकम् अस्य प्रायश्चित्तस्य शुद्धभावतः परिशोधनेन श्रमणो मोक्षमाप्नुयादिति भावः । एतत्प्रायश्चित्तापन्नत्वेन उपचारात् श्रमणोऽपि पाराञ्चिकः कथ्यते । अथवा शोधिरूप प्रायश्चित्तस्य पारं पर्यन्तमञ्चति गच्छति यत्तत् पाराञ्चिकं अपश्चिममनुत्तरं वा प्रायश्वितं पाराश्चिकं व्यपदिश्यते । के त्रयः पाराञ्चिकाः ' इत्याह- ' तंज हा, इत्यादि, तद्यथा - ते यथा - दुष्टः पाराञ्चिकः प्रथमः १, प्रमत्तः पाराञ्चिको द्वितीयः २, अन्योन्यं कुर्वाणः पाराञ्चिकस्तृतीयः ३ । तत्र दुष्टो - द्विविधः कषायदुष्टो विषयदुष्टश्च, एक कषायमाश्रित्य दुष्टो भवेत्, द्वितीयो विषयमिन्द्रियविषयमाश्रित्य दुष्टो भवेत्, स द्विविधोऽपि दुष्टः पाराञ्चिकप्रायश्चित्तयोग्यो भवति १ । द्वितीयः प्रमत्तः पाराञ्चिकः प्रमादमाश्रित्य पाराञ्चिकप्रायश्चित्तयोग्यो भवति, मयं स्त्यानर्द्धिनिद्रावशात् मांससेवी, पञ्चेन्द्रियवधकारी, मद्यसेवी च भवतीति प्रमत्तः पाराञ्चिकः कथ्यते २॥ तृतीयः अन्योन्यं कुर्वाणः अन्योन्यमिति परस्परं साधुः साधुना सह मैथुनचेष्टां कुर्वाण निर्ग्रन्थी निर्ग्रन्ध्या सह मैथुनवेष्टां कुर्वाणा च । एते पूर्वोक्तास्त्रयोऽपि पाराश्चिकप्रायश्चित्तभागिनो भवन्तीति । अत्रेयं छेदार्हा शोधिरभिहिता, छेदस्तावत् द्विविधःदेशतः सर्वतश्च, तत्र पञ्चरात्रिन्दिवादिकः षण्मासान्तश्छेदो देशतश्छेद उच्यते सर्वच्छेदस्त्रिविध:मूलाऽनवस्थाप्यपाराञ्चिकभेदात् अत्र पाराञ्चिकच्छेदस्याधिकारः; स च द्वादशवार्षिकं तपोऽनुष्ठानं कारयित्वा गृहस्थवेषं दत्त्वा पुनर्नूतनदीक्षाप्रदानरूपो भवति । पाराचिको द्विविधो भवति-आशातनापाराञ्चिकः प्रतिसेवनापाराञ्चिकश्च तत्र - आशातनापाराञ्चिकःतीर्थकर-प्रवचन-श्रुता चार्यगणधरमहर्द्धि कादीनामत्याशातकः, तत्र तीर्थकराशातना यथातीर्थकरो हि यद् देवरचितसमवसरणाष्टमहाप्रातिहार्यादिलक्षणां प्राभृतिकामनुमन्यते तन्न वरम्, यः केवलालोकेन भवस्वरूपं जानन्नपि किमिति विपाकदारुणामेतादृशीं भोगसामग्रीं भुङ्क्ते ? इति । तथा मल्लिनाथस्य स्त्रीशरीरस्यापि यत्तीर्थमुच्यते तदप्यतीवायुक्तम्, स्त्रीतीर्थं न भवतीति शास्त्रे श्रूयते इति । तथा सर्वोपायकुशला अपि तीर्थकरा प्रामनगरादौ विद्वत्य विहृत्यातीव दुश्वरां देशनां
"
-