________________
बृहत्कल्पसूत्रे 'मेहुणं पडिसेवमाणे' मैथुनं प्रतिसेवमानः, तत्र मैथुनं मिथुनं स्त्रीपुंसयुग्मलक्षणं, तस्य भावः कर्म वा मैथुनम्-अब्रह्म तत् प्रतिसेवमानो द्वितीयोऽनुद्घातिकः २ । तृतीयमाह-'राइभोयणं भुंजमाणे रात्रिभोजनं भुञ्जानः-पूर्व सैन्यप्रकरणे सैन्यरुद्धे स्थाने भिक्षाचर्यार्थ गतः साधुः कदाचित् तां रजनी तत्रैव वाहयेत् तत्र तेन एकाकित्वेन रात्रिभोजनं कृतं स्यात्. तेन स रात्रिभोजनस्वभावो भवेत् ततः रात्रिभोजनं रात्रौ अशनाद्याहरणं भुञ्जानः कुर्वाणस्तृतीयोऽनुद्घातिको भवति । एषां त्रयाणामपि अनुद्घातिकं गुरुमासिकं प्रायश्चित्तं समापयेतेति ।। सू० १॥ एतदेव विशदयति भाष्यकारः-'उग्घाय०' इत्यादि ।
भाष्यम्--उग्घायअणुग्घाया, दव्वे खेत्ते य काल भावे य । दव्वे हलिद्दरागो, किमिरागो होज्जऽणुक्कमसो। ३॥ खेत्ते य किण्ह-पत्थर-भूमी काले य संतरं इयरं । भावे य अपगडी, भव्यस्स य तह अभव्चस्स ॥४॥ छाया--उद्घातानुद्घाती, द्रव्ये क्षेत्रे च कोले भावे च । द्रव्ये हरिद्वारागः, कृमिरागो भवेदनुक्रमशः ॥३॥ क्षेत्रे च कृष्ण-प्रस्तर-भूमिः, काले च सान्तरमितरम् । भावे चाट प्रकृतयः, भव्यस्य च तथा अभव्यस्य ॥४॥
अवचूरी-'उग्घाय' इति । अत्र ह्रस्वत्वाद् दीर्घत्ववद् उद्घातिकाद् अनुद्घातिकस्य प्रसिद्धिरिति कृत्वा द्वयोरपि उद्घातिकानुद्घातिकयोव्यादिभेदतः प्रत्येकं चतुर्विधत्वं प्रतिपाद्यते'उग्याइय०' इत्यादि । उद्घातानुद्घातौ उद्घातिकम् अनुघाति कंचेति द्वे अपि प्रत्येकं चतुर्विधे भवतः, तथाहि-द्रव्ये क्षेत्रे काले भावे च द्वे अपि भवतः, तत्र द्रव्य इति द्रव्यत उद्घातिको हरिद्रारागः, तस्य सुखेनापनेतुं शक्यत्वात् , अनुद्घातिकं कृमिराग. अपनेतुमशक्यत्वात् १ । क्षेत्रे इति क्षेत्रतः कृष्णप्रस्तरभूमिः, क्रमशः उद्घातिकं, कृष्णभूमिः हलकुलिकादिभिः सुखेन क्षोदयितुं शक्यत्वात् , अनुातिक प्रस्तरभूमि. हलादिना क्षोदयितुमशक्यत्वात् २। काले इति कालतः उद्घातिकं यत्र सान्तरम्अन्तरन्तः समयव्यवधानेन प्रायश्चित्तदानं भवति, अनुद्घातिकम् इतरमिति निरन्तरं यत्र समयसातत्येन प्रायश्चित्तदानं भवति ३ । भावे इति भावतः-उद्घातिकं यथा भव्यस्याष्टौ प्रकृतयः या उद्घातयितुं, शक्या भवन्ति, अनुद्धातिकं यथा अभव्यस्याष्टौ प्रकृतयः या उद्घातयितुमशक्या भवन्ति यतो यथा भन्यो येन शुभाध्यवसायेन ज्ञानावरणादिकर्मणां क्षपणं करिष्यति तादृशो भावोऽभव्यस्य कदाचिदपि नोत्पद्यते इत्यतस्तस्य भावोऽनुद्घातः, कर्मोद्घातकरणस्यासामर्थ्यात् , अनेनैव कारणेन तस्य कर्माणि अनुद्घातिकानि कथ्यन्ते । अत्र च प्रायश्चित्तानुद्घातिकस्याधिकार इति हस्तकर्मादीनां त्रयाणां विरुद्धाचरणानां सेवनत एते त्रयोऽपि अनुद्घातिकाः अनुघातिकप्रायः श्चित्तयोग्यो भगवता प्रदर्शिताः, एपां मूलगुणानामेव मगसद्भावादिति ।। ३-४ ॥.