Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
वृहत्कल्पसूत्रे weremmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm नो कप्पइ स्यहरणगोच्छगपडिग्गमायाए तिर्हि कसिणेहि वत्येहिं आयाए संपन्चइत्तए, कप्पइ से अहापडिग्गहियाई वत्थाई गहाय आयाए संपव्वइत्तए । सू० १३ ॥
छाया-निर्ग्रन्थस्य खलु तत्प्रथमतया संप्रव्रजतः कल्पते रजोहरणगोच्छकप्रतिग्रहमादाय त्रिभिः कृत्स्नैर्वस्त्रैः आत्मना संप्रव्रजितुम् । स च पूर्वोपस्थितः स्यात् एवं तस्य नो कल्पते रजोहरणगोच्छकप्रतिग्रहमादाय त्रिभिः कृत्स्नैर्वस्त्रैः आत्मना संप्रवजितुम् कल्पते तस्य यथाप्रतिगृहीतानि वस्त्राणि गृहीत्वा आत्मना संप्रबजितुम् ।। सू०१३॥
चूर्णी-'निग्गंथस्स'इति । निर्ग्रन्थस्य तत्प्रथमतया तत्-तेन साधुत्वेन प्रथमः तत्प्रथम', तस्य भावस्तत्ता, तया पूर्वमदीक्षितस्य प्रथममेव दीक्षितुमुपस्थिततया सप्रवजतः प्रव्रज्यां गृहतः कल्पते रजोहरण-गोच्छक प्रतिग्रहम् , तत्र रजोहरणं प्रसिद्ध, गोच्छकं प्रमार्जनिका, प्रतिग्रहः पात्रम् , रनोहरणं च गोच्छकं च प्रतिग्रहश्चेति समाहारद्वन्द्वे रजोहरणगोच्छकप्रतिग्रहम् , तत् नूतनम् आदाय गृहीत्वा तदन्यैनूतनैस्त्रिभिः कृस्नै , तत्र-चतुर्विशतिहत्तपरिमितमायामतः, एकहस्त्तपरिमितं च विष्कम्भतः, एतावत्प्रमाणकं वस्त्र कृत्स्नमुच्यते, तैः परिपूर्णैः अखण्डितैः वस्त्रैः 'थान' 'ताका' इति प्राचीनसमये प्रसिद्धैः, एकं कृत्स्नं वस्त्रं चतुर्विंशतिहस्तप्रमितमभूत् तादृशैस्त्रिमिः कृत्स्नैर्वस्त्रैः साधूनां द्वासप्ततिहस्तप्रमितवस्त्रग्रहणस्य कल्पत्वात्, तैः सह तानि त्रीणि गृहीत्वेत्यर्थः आत्मना स्वयं सप्रनजितुं कल्पते । एष विधिरगारितोऽनगारताग्रहणकालविपयो बोव्यः । अथ पूर्वप्रव्रजितस्य सामायिकचारित्रवतश्छेदोपस्थापनीयचारित्रग्रहणसमयस्य विधि प्रदर्शयति-'से य पुन्योवहिए' इत्यादि, ‘से य' स च प्रव्रज्यां प्रतिपत्तुकामो यदि पूर्वोपस्थितः पूर्वगृहीतसामायिकचारित्रः सन् छेदोपस्थापनीयचारित्रं ग्रहीतुकामः स्यात्, यद्वा अतिचारादिमूलगुणदोपापत्या पुनर्वीक्षार्थमुपस्थित स्यात् तदा 'एवं' एवं सति 'से' तस्य पूर्वोपस्थितस्य रजोहरणगोच्छकप्रतिग्रहं नूतनम् 'आयाए' आदाय गृहीत्वा एवं त्रिभिश्च कृत्स्नैः वस्त्रैः सह आत्मना स्वयं संप्रत्रजितु नो कल्पते । तर्हि तस्य कया रीत्या कल्पते ? इति तद्विधिमाह-'कप्पई' इत्यादि, कल्पते तस्य तादृशस्य पूर्वोपस्थितस्य छेदोपस्थंपनीयचारित्रग्रहणकामस्य यथाप्रतिगृहीतानि-यथा येन विधिना प्रतिगृहीतानि यानि पूर्व स्वीकृतानि वस्त्राणि तान्येव गृहीत्वा आत्मना स्वयं संप्रव्रजितुम् छेदोपस्थापनीयचारित्रं ग्रहीतु कल्पते इति पूर्वेण सम्बन्ध । अयं भाव.-यः पूर्व गृहस्थः स प्रथमतया प्रव्रज्यां गृह्णानि तस्य नूतनं रजोहरणादिक त्रीणि कृत्स्नानि वस्त्राणि च गृहीत्वा प्रव्रजितुं कल्पते । यः पुनः पूर्वोपस्थितः पूर्व गृहीतसामायिकचारित्रः, यद्वा चारित्रदोषवशात् पुनर्महाव्रतोपस्थापनं स्वीक कामो भवेत् तस्य नृतनरजोहरणादिकं त्रीणि कृत्स्नानि वस्त्राणि च गृहीत्वा प्रव्रजितुं न कल्पते, किन्तु तस्य पूर्वप्रतिगृहीतान्येव वस्त्राणि गृहीत्वा कल्पते इति भावः। ननु यस्तत्प्रथमतया दीक्षा ग्रहीष्यति,

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536