Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 442
________________ पणि-भाण्या-वचूरी उ०४ सू० २ पाराञ्चिकस्वरूपम् ८७ ञ्चिकस्तत्रः प्रथमः प्रतिपादितः । १ । द्वितीयं प्रमत्तपाराञ्चिकं विवृणोति-'पंचविहो' इत्यादि यः प्रमत्तपाराञ्चिकः, स तु पञ्चविधीभवति प्रमादस्य पञ्चविधत्वात् तथाहि-मद्यप्रमत्तः १, विषयप्रमत्तः २, कपायप्रमतः ३, विकथाप्रमत्तः ४, निद्राप्रमत्तश्चेति ५ । तत्र मद्यप्रमत्तः मद्यपानोद्भूतप्रमादवान् १, विषयप्रमत्तः-श्रोत्रादिविषयलोलुपत्वेन प्रमादवान २, कषायप्रमत्तःकपायाः क्रोधमानमायालोभाश्चत्वारः, तेवन्यतमकषायवशेन प्रमादवान् ३, विकथाप्रमत्तःविकथाश्चतस्रः-स्त्रीकथा१, देशकथा २, भक्तकथा ३, राजकथा ४, तासु आसक्तत्वेन प्रमादवान् ४, निद्राप्रमत्तः, तत्र निद्रा पञ्चविधा-निद्रा १, निद्रानिद्रा २, प्रचला ३, प्रचलाप्रचला ४, स्त्यानद्धिश्चेति ५ । निद्राचतुष्टयस्य लक्षणं यथा "मुहपडिवोहो निदा १, दुहपडिवोहो य निहनिद्दा य २ । पयला होइ ठियस्स ३, पयलापयला उ चकमओ ४ इति ॥१॥ सुखप्रतिवोघो निद्रा १, दुःखप्रतिबोधश्च निद्रानिद्रा २ । प्रचला भवति स्थितस्य ३, प्रचलाप्रचला तु चंक्रमतः ॥ २ ॥ इति प्रच्छाया । आसां चतसृणां निद्राणां लक्षणं प्रोक्तम् , अत्र पाराञ्चिकस्य प्रस्तुतत्वात्स्त्यानर्द्धिनिद्रयाऽधिकाइति स्त्यानर्द्धिर्भाव्यते-स्त्यानद्धिस्तावत् दर्शनावरणीयप्रबलकर्मोदयात् स्त्याना कठिनीभूता आच्छन्ना ऋद्धिः चैतन्यशक्तिर्यस्यां सा त्यानःि, यथा घृते जले च त्याने कठिनीभूते सति न तत्र द्रवत्वं किञ्चिदुपलभ्यते तथा चैतन्यऋचामपि स्त्यानायां सत्यां न किञ्चिदपलभ्यते । अस्यां निद्रायां प्राप्तायां मनुष्यो तदवस्थायामेव नानाविधानि महान्ति बलसाध्यानि दुश्चरणानि समाचर्य पुनरागत्य स्वपिति, स्त्यानर्द्धिमतो हि वासुदेवबलादर्घबलं भवति तीर्थकृदादयः प्रज्ञापयन्ति तत्त प्रथमसंहननिनमपेक्ष्य प्रोक्तम् , सम्प्रति तु सामान्यजनापेक्षया द्विगुणं त्रिगुणं चतुर्गुणं वा बल स्त्यानद्धिमतो भवतीति बोध्यम् । एवं पिशित१-मोदक२-कुम्भकार३-दन्त४-बटशाखा-भञ्जनादि ५-कायः, स्यानद्विनिद्रावानयमिति परिज्ञाय प्रमत्तपारा श्चिकं निर्णयेत् । तत्र प्रथमं पिशितदृष्टान्तो यथा-कश्चित श्रमणः पूर्व गृहस्थावस्थायां पिशिताशी आसीत् तेन च पश्चात् प्रव्रज्या गृहीता, एष कदाचित् कचित् दृष्टपुष्टं महिष दृष्ट्वा सजाततन्मांसभक्षणाभिलाषः सन् एकदा रात्रौ स्यानर्द्धिनिद्रायां तस्मिन् महिषमण्डले गत्वा अन्य महिषं व्यापाथ भुक्तवान् , शेषं तन्मांसमुपाश्रये मानीय तेन स्थापितम् , आचार्येण सर्वं ज्ञात्वा निर्णीतं यदयं स्यामर्द्धिनिद्रावानिति । एषा स्त्यानचिनिद्रा । १। मोदकदृष्टान्तो यथा-कश्चित् श्रमणः भिक्षाथै पर्यटन कस्यचिद् गृहस्थस्य गृहे मोदकं भक्तं दृष्ट्वा तद्ग्रहणार्थ याचनायां कृतायामपि स मोदकं न लब्धवान् , ततश्च तदलामे तदध्यवसायपरिणत एव सुप्तवान् । रात्रौ तद्गृहे गत्वा गृहस्य कपाटौ त्रोटयित्वा मोद

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536