Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 443
________________ पृहत्कल्पसूत्र कान् यथारुचि भुक्त्वा अवशिष्टर्मोदकैः पात्रं पूरयिच्वा उपाश्रये समागतः । प्राभातिके चावश्यके---‘एवंविधः स्वप्नो मया दृष्टः' इति प्रकटितवान् , ततश्च प्रभाते मोदकपरिपूर्ण पात्रं दृष्ट्वा माचार्यैतिं यदयं स्त्यानर्द्धिनिद्रावानिति २ । कुम्मकारदृष्टान्तो यथा-कश्चित् कुम्भकारः कापि गच्छे प्रबजितः, तस्य कदाचिद् रात्रौ स्त्यानद्धिनिद्रा संजाता, स च पूर्वाचरित्तमृत्तिकापिण्डच्छेदनाभ्यासादुपाश्रयान्निर्गत्य मृत्तिकाखनौ गत्वा तत्रतो मृत्तिकापिण्डा आनीय उपाश्रये स्थापिताः, प्रभाते तान् दृष्ट्वाऽऽचार्येण ज्ञातं यदय त्यानचिनिद्रावानिति ३ । दन्तदृष्टन्तो यथाकश्चित् श्रमणः गहस्थावस्थायामभिमुखमापतता हस्तिना आक्रान्तः पलायमानः कथञ्चिदुन्मुक्तः स उदीर्णत्यानर्द्धिरुत्थाय गजशालायां गत्वा हस्तिदन्तौ उत्पाट्य उपाश्रयस्य बहिः प्रदेशे संस्थाप्य पुनरपि सुप्तः । प्रभाते स्वप्नमालोचितवान् यदहं स्वप्ने हस्तिदन्तौ उत्पाटितवान् प्रकटितवांश्च स्वप्नम् , तत आचार्य उपाश्रयबहिःप्रदेशे हस्तिदन्ता विलोक्य निर्णीतवान् यदयं स्त्यानर्द्धिनिद्रावानिति ४ । वटशाखामञ्जनदृष्टान्तो-यथा -कश्चित् श्रमणो भिक्षार्थं पर्यटन कुत्रचित् मध्यमार्गवर्तिन एकस्य वटस्य शाखया शिरसि आघट्टितः सन् अत्यन्तं परितप्तान्तः करणो वटवृक्षोपरि प्रद्वेषमुपगतस्तदध्यवसायपरिणतश्च प्रसुप्तवान् । ततः उदीर्णस्त्यानर्द्धिश्चोत्थाय तत्र गत्वा वटवृक्षमुन्मूल्य तदीयशाखामानीयोपाश्रयोपरि स्थापितवान् , प्रभाते चावश्यककायोत्सर्गत्रिके कृते सति पूर्वोक्तरीत्या आचार्यान् प्रति स्वप्नमालोचितवान् । तत आचार्याः प्रभाते दिगवलोकनं कुर्वन्तोऽन्यत आनीय संस्थापितां वटवृक्षशाखां दृष्ट्वा निर्णीतवन्तः यदयं स्त्यानर्द्धिनिद्रावानिति ५ । एतादृशं स्त्यानर्द्धिमन्तं श्रमणमेवं प्रज्ञापयेत्-सौम्य ! साधुलिङ्गं त्यज, तव चारित्रं नास्तीति सानुनयमाचार्येण तस्य लिङ्गं त्यानयेदिति। - __व्याख्यातः प्रमत्तपाराञ्चिकः, सम्प्रति अन्योन्यकुर्वाणो व्याख्यायते-अन्योन्यं कुर्वाणः पाराञ्चिक इति, अन्योन्यं परस्परं यत् करणं मुखपायुप्रभृतिप्रयोगेणंऽब्रह्मसेवनं तत्कुवार्णः, साधुः साधुना सह मुखपायुप्रयोगेण मैथुनचेष्टां कुर्वाणः पाराञ्चिकः, साध्वी साध्या सह हस्तपादाङ्गलिकर्मादिप्रयोगेण मैथुनचेष्टां कुर्वती पाराञ्चिका भवतीति विज्ञेयम् । यदि केनाऽपि साधुना बुद्धिवैपरीत्यवशाद् एतदाचरितं भवेत् , ततः शुभपरिणामोदयेन पश्चात्तापसंतप्तान्तःकरणो विशिष्टगुणवान् यदि 'पुनरेतादृशमपराधं न करिष्यामि' इति सद्भावनया पुनरकरणाय कृतनिश्चयो भवेत्तदा स तपःपाराञ्चिकः कथ्यते इति भावः । भा० गा० ५॥ सू० २ ॥ पूर्वसूत्रे पाराञ्चिक्रप्रायश्चित प्रतिपादितम्, सम्प्रति अनवस्थाप्यप्रायश्चितं प्ररूपयितुमाह'तओ अणवट्टप्पा' इत्यादि । मूत्रम्-तमो अणबहप्पा पण्मचा, तंजहा-साहम्मियाणं० तेण्णं करेमाणे, अन्नधम्मियाणं तेण्णं करेमाणे, इत्यादालं दलमाणे ॥ मू० ३॥

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536