Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 556
________________ १७१ ३.२७] तृतीयोन्मेषः तण्णत्थि किंपि पइणो पकप्पिअं जंण णिअइ घरणीए । अणवरअगअणसीलस्स कालपहिअस्स पाहिज्जं ॥९९ ।। तन्नास्ति किर्माप पत्युः प्रकल्पितं यन्न नियतिगेहिन्या । अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ॥ (छाया) अत्र साम्यं, निमित्तनिमित्तिभावः, सामान्यविशेषभावश्चेति त्रितयमपि अन्तर्भावयितुं युज्यते । यस्मात् प्रहस्तवधे श्रावयितव्ये साक्षादभिधा नानुचितत्वात् विच्छित्त्येवमभिधीयते । तदेवमयमप्रस्तुतप्रशंसाव्यवहारः कवीनामतिविततप्रपञ्चः परिदृश्यते । तस्मात् सहृदयश्च स्वयमेवोत्प्रेक्षणीय: । प्रशंसाशब्दोऽत्रार्थप्रकाशादिवत् विपरीतलक्षणया गर्दायामपि वर्तते। वर्णना सामान्यमात्रवृत्तिर्वा । एवमप्रस्तुतप्रशंसां विचार्य विवक्षितार्थप्रतिपादनाय प्रकारान्तराभिधानत्वादनयैव समच्छायप्रायं पर्यायोक्तं विचारयति यद्वाक्यान्तरवक्तव्यं तदन्येन समर्प्यते । येनोपशोभानिष्पत्त्यै पर्यायोक्तं तदुच्यते ॥२७॥ यद्वाक्यान्तरेत्यादि-“पर्यायोक्तं तदुच्यते" = पर्यायोक्ताभिधानमलंकरणं तदभिधीयते । “यद्वाक्यान्तरवक्तव्यं'' = वस्तु वाक्यार्थलक्षणं पदसमुदायान्तराभिधेयं “तदन्येन" = वाक्यान्तरेण येन "समर्प्यते" - प्रतिपाद्यते । किमर्थम् ? "उपशोभानिष्पत्त्यै" = विच्छित्ति (विशेष) संपत्तये । तत्पर्यायोक्तमित्यर्थः । नन्वेवं पर्यायवक्रत्वात् किमत्रातिरिच्यते? पर्यायवक्रत्वस्य पदार्थमात्रं वाच्यतया विषयः, पर्यायोक्तस्य पुनर्वाक्यार्थोऽप्यङ्गतयेति तस्मात् पृथगभिधीयते । उदाहरणं यथा चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660