Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 627
________________ २४२ वक्रोक्तिजीवितम् कथावैचित्र्यपात्रं तद्वक्रिमाणं प्रपद्यते । यदङ्गं सर्गबन्धादेः सौन्दर्याय निबध्यते ॥ ९ ॥ 'कथावैचित्र्यपात्रं " " तद्वक्रिमाणं (प्रपद्यते ) " किंविशिष्टं प्रस्तुत संविधानकभङ्गीभाजनं । किं तत् ? " यदङ्गं सर्ग बन्धादेः सौन्द — [ ४.९ " = "" = र्याय निबध्यते " ' यत् " – जलक्रीडादिप्रकरणं ( " सर्गबन्धादेः " ) महाकाव्यप्रभृतेः (" सौन्दर्याय " ) - उपशोभानिष्पत्यं (" निबध्यते”) निवेश्यते । - अयमस्य परमार्थ:-- प्रबन्धेष जलकेलिकुसुमापचयप्रभृति प्रकरणं प्रक्रान्तसंविधानकानुबन्धि निबध्यमानं निधानमिव कमनीयसंपदः संपद्यते । यथा रघुवंशे अथोमिलोलोन्मदराजहंसे रोघोलतापुष्पवहे सरय्वाः । विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ।। ३३ ।। इत्यादि । जलक्रीडास्पर्शानन्तरलक्षितत्वात् अखिलमदविकल(ललना) विलासमूलाध्यास्यमानोत्सवाकुलस्य (कुमुदकन्या) कन्दुकक्रीडालक्षणमुत्सवान्तरमुत्तरकथोपकार्यपपद्यते, तद्विदामाह्लादमाव हति च । तथा हि राज्ञः करा (स्फालनाभ्यक्षणा) दिवारिविहाररसपरवशान्तःकरणस्य (करारविन्दा) दलंकरण मलक्षितपतनमुत्पन्नकुतूहला कुमुद्वती नाम नागकन्या जगृहे । ततस्तस्मिन्नादरोद्रेकादन्विष्टेऽप्यनासादिते पाथोन्तर्वर्तिनं नागनायकमानीय निवेदितं कुमुदमुद्दिश्य दशाननान्तकनन्दनः समधत्त धनुषि धन्वी गारुत्मतमस्त्रम् । अथ

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660