Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 644
________________ २५९ ४.२४] चतुर्थोन्मेषः नम्" "स्फारस्य" ब्रह्माण्डोदरभरित्वादतिरिक्तस्य, “यशसः" - कीर्तेः यः “संभारः"-समुदयः, तस्य "भाजनं" पात्रं भूमिरिति यावत् । कुतो हेतोः “स्वमाहात्म्यचमत्कारात्" "स्वमाहात्म्यं" स्वस्य प्रभावः, तस्य "चमत्कारः" आश्चर्यकारित्वं, तस्मात् । एतदुक्तं भवति–निःसीममनोरथमलंकरिष्णनैकेनांशकेन फलेन संयुतोऽप्यपरिमितानि तादृशस्वरूपाणि फलान्यगम्यान्यध्यवसायादनिच्छन्नपि स्वप्रभावसंपदा संपादयन्नायकः कमपि कामनीयकनिधानकलशं प्रबंधस्य वक्रिमाणमावहति । यथा नागानन्दे तत्र दुनिवारवैरादपि वैनतेयान्तकादे [काकिनम्] सकलकारुणिकचूड़ामणिः शङ्खचूडं जीमूतवाहनो निजदेहदानादभिरक्षन्न (केवलं तं) रक्षितवान् अपितु सकलं तत्कुलमेव ... आस्तां वस्तुषु वैदग्धी काव्ये कामपि वक्रताम् । प्रधानसंविधानाङ्कनाम्नापि कुरुते कविः ॥२४॥ "आस्तां वस्तुषु वैदग्धी" "आस्ताम्"-दूरत एव वर्तताम् , "वस्तुषु"-अभिधेयेषु प्रकरणप्रतिपाद्येष, “वैदग्धी"-विच्छित्ति:, "काव्य कामपि वक्रतां कुरुते कविः" 'काव्ये'–नाटके सर्गबन्धादौ च, कामपि वक्रतां “कुरुते"--विदधाति । 'कविः'अदभुतप्रतिभाप्रसारप्रकाशकः । केन-"प्रधानसंविधानाङ्कनाम्नापि" "प्रधानं"-प्रबन्धप्राणप्रायं, 'यत्संविधानं'-कथायोजनं, “तदङ्कः" चिह्नमुपलक्षणं यस्य यत्र वा तत्तथोक्तं, तच्च तन्नाम च, तेनापि । अपिशब्दो विस्मयमुद्द्योतयति । इदमस्य रहस्यम् - विचारितविचित्रवस्तुविच्छित्तेः प्रबन्धस्य वक्रताविर्भवति (इति) किमद्भुतम् । अद्भुतं पुनरिदं यत्सारतरसंविधानकनिबन्धलक्षणा (योजितसर) साक्षरेण नाम्नापि सा

Loading...

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660