Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 645
________________ २६० वक्रोक्तिजीवितम् [४.२५ निवेश्यते । यथा-अभिज्ञानशाकुन्तल - मुद्राराक्षस - प्रतिमानिरुद्ध - मायापुष्पक - कृत्यारावण-छलितराम-पुष्पदूषितकादीनि नामानि । एवंविधानि काव्यबन्धानां नामधेयान्यपि निरुपमोल्लेखानि (विलक्षणवक्रतासरसा) क्षराणि निवेदितान्तर्गतविशिष्टसंबन्धतया निबध्नन्त्येव वक्रिमाणम्, न पुनर्हयग्रीववध - शिशुपालवध-पाण्डवाभ्युदय - रामानन्द - रामचरितप्रायाणि सरलस्वरूपाणि । अप्येककक्षया बद्धाः काव्यबन्धाः कवीश्वरैः । पुष्णन्त्यनर्घामन्योन्यवैलक्षण्येन वक्रताम् ॥२५॥ "पुष्णन्ति” – उल्लासयन्ति, "अनर्धाम" - अपरिच्छेद्याम् , "वक्रतां"- वक्रभावम् । केन—“अन्योन्यवैलक्षण्येन" परस्परवैसादृश्येन । के ते “काव्यबन्धाः”–रूपकपुरःसराः । किविशिष्टाः- "अप्येककक्षया बद्धाः"-एकेनापीतिवृत्तेन योजिताः । कैः-'कवीश्वरैः'-अन्यत्र विस्तीर्ण वस्तु संक्षिपद्भिः संक्षिप्तं वा विस्तारयद्भिः, विचित्रवाच्यवाचकालंकरणसंकलनया नवतां नयद्भिरित्यर्थः । ___ इदमत्र तात्पर्यम्-एकामेव कामपि कन्दलितकामनीयकां कथां निर्वहद्भिर्बहुभिरपि कविकुञ्जनिबध्यमाना बहवः प्रबन्धा मनागप्यन्योन्यसंवादमनासादयन्तः सहृदयहृदयाह्लादकं कमपि वक्रिमाणमादधति । ___ यथा एकस्यामेव दाशरथिकथायां रामाभ्युदय - उदात्तराघववीरचरित - बालरामायण - कृत्यारावण - मायापुष्पकप्रभृतयः । ते हि प्रबन्धप्रवरास्तेनैव कथामार्गेण निरर्गलरसासारगर्भसन्दर्भसंपदा प्रतिपदं प्रतिवाक्यं प्रतिप्रकरणं च प्रकाशमानाभिनवभङ्गीप्रायाः भ्राजिष्णवो नवोनवोन्मीलितनायकाद्भुतगुणोत्कर्षा

Loading...

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660