Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२५८ वक्रोक्तिजीवितम्
[४.२२-२३ त्रैलोक्यरक्षाधिकारव्यापृतबाहुना वासुदेवेन देवर्षिमुखात् "तदिन्द्रसन्दिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते" ॥५४॥ इत्यादिना पुरंदरसंदेशं “ओमित्युक्तवतोऽथ
शाङ्गिणः ॥ ५५॥ इत्यादिना तत्कालकन्दलितक्रोधानुभावभङ्गया निशम्याङ्गीकृतमाधिकारिकं माहिष्मतीनाथमनादृत्य, इंन्द्रप्रस्थं प्रति प्रतिष्ठास्यमानेन निमग्ननिखिलवीरस्थितिविषयतामनीयत। ततस्तस्मिन्नेव संश्रितसकलराजके धर्मराजस्य राजसूयमण्डपे मधुरिपोर[ग्रपूजास] मानमसहमानेनातिदुःसहवाक्यपारुष्यावरोधपरंपराविरचनचतुरेण चेदिराजेन “कृतार्थीकृत" इत्यन्तेन च ।।
प्रबन्धवक्रतामेव प्रकारान्तरेण व्याचष्टे
यत्रकफलसंपत्तिसमुद्युक्तोऽपि नायकः । फलान्तरेष्वनन्तेषु तत्तुल्यप्रतिपत्तिषु ॥२२॥ धत्ते निमित्ततां स्फारयशःसंभारभाजनम् ।
स्वमाहात्म्यचमत्कारात् सा पराप्यस्य वक्रता ॥२३॥ “सा परापि"-अन्यापि न केवलं प्रागुक्ता, "अस्य" रूपकादेः, "वक्रता"-वक्रभावो भवतीति संबन्धः । “यत्रकफलसंपत्तिसमद्युक्तोऽपि नायकः", "यत्र" - यस्यां, “एकफलसंपत्तिसमुधुक्तोऽपि"-पराभिमतवस्तुसाधनव्यवसितोऽपि नायकः, “फलान्तरेष्वनन्तेषु" "फलान्तरेष" साध्यरूपेषु वस्तुष, “अनन्तेषु" - गणनातीतेषु । “तत्तुल्यप्रतिपत्तिषु धत्ते निमित्तताम्" "तत्तुल्यप्रतिपत्तिषु"-आधिकारिकफलसमानोपपत्तिषु, प्रस्तुतार्थसिद्धेरेवाधिगतसिद्धिष्विति [यावत् । किंभूतः "स्फारयशःसंभारभाज

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660