Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 641
________________ २५६ वक्रोक्तिजीवितम् [४.१९ .. रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥५१॥ एते दुरापं समवाप्य वीर्य मुन्मूलितारः कपिकेतनेन ॥५२॥ इत्यादिना दुर्योधननिधनान्तां धर्मराजाभ्युदयदायिनीं सकलामपि कथामुपक्रम्य कविना निबध्यमानत्वात् तेजस्विवृन्दारकस्य दुरोदरद्वारा दूरीकृतविभतेः प्रभतद्रुपदात्मजानिकारनिरतिशयोद्दीपितमन्योः कृष्णद्वैपायनोपदिष्टविद्यायोगसंपदः पाशुपतादिदिव्यास्त्रप्राप्तये तपस्यतो गाण्डीवसुहृदः पाण्डुनन्दनस्यान्तरा किरातराजसंप्रहरणात् समुन्मीलितानुपमविक्रमोल्लेखं कमप्यभिप्रायं प्रकाशयति । तथाहि यत्प्रथमम् - प्रातपाशुपतप्रभृतिपरमास्त्रसंभारेणाप्येकाकिना (पार्थेन) पिनाकिना (सह) महाहवः, यस्मिन् भुजयोरादायान्दोल्यमानो वियति विषमलोचनोऽपि विस्मयावेशविकलतां विलक्षतां चालब्धपूर्वां लम्भितः । तस्य प्रत्यक्षीकृतत्र्यक्षस्य तत्प्रसादासादितदिव्यास्त्रसंपदो व्यापदापातरक्षणविचक्षणचक्रधरसारथेस्तथाविधरथोत्तममास्थितस्य स्थिरतरसमरसंरम्भभीमसेनाद्युपेतानीकिनीपरंपरापरिवारितस्य पुरस्कृतशिखण्डिनः पराङमखे वर्षीयस्यपि पितामहे, महादयालोः “अर्जुनस्य इमे बाणाः नेमे बाणाः शिखण्डिनः" इत्यादिनार्षेण वचसा सूचितम् श्वपचादपि (नृशंसवृत्ताचारणम्)। औचित्यप्रधानपद्धतिप्रवर्धमानवीररसपरिवृढप्रबन्धनिबध्यमानमयशस्यमेवान्यथा व्यापृतस्य पृथिवीपतेः भूरिश्रवसोऽप्यधीरवर्त्मना भुजदण्डोच्छेदनम् । तद्वन्मेदिनीनिमग्नस्यन्दनाभ्युद्धरणव्यापृतस्य व्याहृतविरोधिताहवपद्धतेरप्यङ्गभर्तुरुत्तमाङ्गकर्तनम् । एवमन्यदप्यूह्यम् ।

Loading...

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660