Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२५४ वक्रोक्तिजीवितम्
[४.१७ लिता श्रीः =वाच्यवाचकरचनावैचित्र्यसंपत यस्याः सा तथोक्ता तस्याः । किमर्थं "विनेयानन्दनिष्पत्त्यै"=प्रतिबोध्यपार्थिवादिप्रमोदसंपादनाय।
अनेनेदमभिहितं भवति-इतिवृत्तान्तवृत्तायाः कस्याश्चिदेकस्याः कथायाः कविस्तन्निबन्धनिर्वहणगतरसपद्धति परित्यज्याभिजातानामाह्लादकारिणा कामनीयकेन केनाप्यन्येन रसेनोपसंहरणमुपपादयन् प्रबन्धे कमपि वक्रिमाणमादधाति । यथा वेणीसंहारे
स हि कामान्तरकवलितसकलभावभावनावारितनि:सारसंसारवासनामहिमनि महाभारते शान्तरसविनाशिना निबन्धनिर्वहण)पद्धतौ पाण्डवकथायास्तथाविधाद्भताभोगशोभिना वीरेण रणप्राङ्गणनिहताखिलारातिचक्रधाराधिष्ठितराजधर्मधर्मराजाभ्युदयसंपादितां समाप्तिमुपपादयन् प्रबन्धप्ररूढप्रौढवक्रताविच्छित्त्याच्छिन्नमभिजातानामाह्लादमावहति । ते हि तथाविधव्यसनक्षेत्रीभतैरपि पुनः स्वपक्षोपबंहितपराक्रमपराजितपरिपन्थिभिर्भुज्यत एषा राज्यश्रीरिति अखिद्यमाना विपत्स्वपि विपुलोत्साहभाजो भवन्ति ।
यथा वोत्तररामचरितम्-रामायणेऽप्यङ्गिना करुणेन दारुणविरहवेदनाभाजनजनकराजपुत्रीपातालप्रवेशात्, प्रवाहोदर (पतितस्य) सोदरसहितस्य रघुपनिबन्धनिर्वहणविपर्यस्तकथायाः सकलदिव्यास्त्रकुशललवबलदर्शनोत्सवान्तरोपबृंहितत्वेन विदेहनन्दिनीसंभोगशृङ्गारः उपसंहरणमात्रे विच्छित्तिविशेषपोषण (पदवीं) भजन अभिजातानामभिनन्दनीयो भवति। एवमन्यदपि स्वयमूह्यम् ।
विध्वस्तव्यसनानां यो नायकाभ्यदयावहः । प्रबन्धः प्रतिपाद्यानां प्रीतिबन्धाय जायते ।। ४९ ।।

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660