Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 640
________________ ४.१८-१९] चतुर्थोन्मेषः ( इत्यन्तरश्लोकः) । रामायण महाभारतयोश्च करुणशान्ताङ्गित्वं पूर्व सूरिभिरेव निरूपि तम् । अस्याः प्रकारान्तरमध्यवतारयतिः त्रैलोक्याभिनवोल्लेख नायकोत्कर्षपोषिणा । इतिहासैकदेशेन प्रबन्धस्य समापनम् ।। १८ ।। तदुत्तरकथावर्तिविरसत्व जिहासया । कुर्वीत यत्र सुकविः सा विचित्रास्य वक्रता ।। १९॥ २५५ "" सा विचित्रा" विविधभङ्गीभ्राजिष्णुः । " अस्य " प्रबन्धस्य । “ वक्रता” – वक्रभावो भवतीति संबन्धः । " कुर्वीत यत्र सुकविः ' " " 44 46 , 'कुर्वीत " - विदधीत । 'यत्र " -- यस्यां । “सुकविः " - औचित्यपद्धति-प्रभावचतुरः । प्रबन्धस्य समापनम् " ( " प्रबन्धस्य " ) - सर्गबन्धादेः " समापनम् " - उपसंहरणं समर्थनमिति यावत् । " इतिहासकदेशेन " इतिवृत्तस्यावयवेन । किंभूतेन " त्रैलोक्याभिनवोल्लेखनाकोत्कर्ष पोषिणा" जगदसाधारण स्फुरितनेतृप्रकर्षप्रकाशकेन । किमर्थं – तदुत्तरकथावर्तिविरसत्वजिहीर्षया - तस्मादुत्तरा या कथा तद्वृत्ति तदन्तर्गतं यद्विरसत्वं वैरस्यमनार्जवं, तस्य " जिहासया" परिजिहीर्षया । , इदमुक्तं भवतिः - इतिहासोदाहृतां काञ्चन महाकविः सकलां कथां प्रारभ्यापि तदवयवेन त्रैलोक्यचमत्कारकारणनिरुपमाननायक यशः समुत्कर्षोदयदायिना तदग्रिमग्रन्थप्रसङ्गतः संभावितविरसभावभयात् उपसंहरमाणः तस्य प्रबन्धस्य कामनीयकनिकेत - नायमानं वक्रिमाणमादधाति । यथा किरातार्जुनीये - स हि सर्गबन्धः द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः 114011

Loading...

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660