Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
४.१६-१७]
चतुर्थोन्मेषः
वीरवृत्तेरभिमानिनोऽस्पन्दमवस्थितिरप्यनुचिता किं पुनर्विलासव्यापृतिः, तत्रापि वेश्यायामिव विलासः महाराजस्य महिष्यां, (वि) चारमन्तरेण तदुचितचित्तपरिचिति विना च दुर्विनयाध्यासः सकलमिदमसमञ्जसता भाजनमुपेक्ष्यमेव ।
यथा शिशुपालवधे
उपेन्द्रस्येन्द्रप्रस्थं प्रति प्रतिष्ठमानस्य द्वारवतीव्यावर्णनम् । औचित्यचारुवचनैरन्यैः प्रकरणः कवेः ।
रत्नैरलंकार इव प्रबन्धः पुष्यति श्रियम् ॥ ४७॥ विचित्रभङ्गीसंचारकथामूर्त्येकजीवितम् ।
-
"
२५३
रसायनं रसस्येव स्वानुप्रकरणं विदुः ॥ ४८ ॥ ( इत्यन्तरश्लोकौ ) ।
एवमनेकप्रकारां प्रकरणवक्रतां प्रतिपाद्य समुदायात्मकस्य प्रबन्धस्य तामभिदधाति
इतिवृत्तान्यथावृत्त रस संपदुपेक्षया ।
रसान्तरेण रम्येण यत्र निर्वहणं भवेत् ॥ १६॥ तस्या एव कथामूर्तेरामू लोन्मीलितश्रियः । विनेयानन्दनिष्पत्त्यै सा प्रबन्धस्य वक्रता ॥ १७ ॥
"सा" " प्रबन्धस्य " - नाटक सर्गबन्धादेः 'वक्रता " - वक्रभावो भवतीति संबन्धः । “यत्र निर्वहणं भवेत् " = यस्यामुपसंहरणं स्यात् ।
'रसान्तरेण रम्येण " इतरेण रसेन रामणीयक (त्व) विधायिना । कया “ इतिवृत्तान्यथावृत्त रस संपदुपेक्षया " - " इतिवृत्ते" इतिहासेऽन्यथा— अपरेण प्रकारेण "वृत्ता" निर्व्यूढा या " रससंपत्" शृङ्गारादिभङ्गी “ तदुपेक्षया " - तदनादरेण तां परित्यज्येति यावत् । कस्याः 'तस्या एव कथामर्तेः " तस्यैव काव्यशरीरस्य । किंभतायाः–“ आमूलोन्मीलितश्रियः " " आमूलं " प्रारम्भात् उन्मी -
66
66

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660