Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 636
________________ ४.१४-१५] चतुर्थोन्मेषः २५१ मुखाभिसन्धिसंह्लादि संविधानकबन्धुरम् । पूर्वोत्तरादिसांगत्यादङ्गानां विनिवेशनम् ॥१४॥ न त्वमार्गग्रहग्रस्तवर्णकाङ्गः कदर्थितम् । वक्रतोल्लेखलावण्यमुल्लासयति नूतनम् ॥१५॥ “वक्रतोल्लेखलावण्यमुल्लासयति नतनम्” =वक्रतोन्मेषकामनीयकमन्मीलयत्यभिनवम् । “अङ्गानां विनिवेशनम्”-प्रकरणानां विशेषेण न्यासः । कस्मात्- “पूर्वोत्तरादिसांगत्यात्”–पूर्वस्य पूर्वस्योत्तरोत्तरेण यत्सांगत्यमतिशयितसंबन्धत्वमुपजीव्योपजीवकभावलक्षणं तस्मात् । किंभूतं “मुखाभिसन्धिसंह्लादि" = मुखानि च तानि अभिसन्धीनि, तैः संह्लादि सुन्दरं हृदयहारि। (पुनः कीदृशं) “संविधानकबन्धुरम्" =प्रस्तुतसंविधानरमणीयम् । ___ इदमुक्तं भवति–प्रबन्धेषु पूर्वं पूर्व प्रकरणं परस्य परस्य प्रकरणान्तरस्य सरससंपादितसन्धिसंबन्धसंविधानकसमर्प्यमाण(कामनीयक) ताप्राणप्रौढिप्ररूढवक्रतोल्लेखमालादयति । यथा पुष्पदूषितके प्रथमं प्रकरणम्-अतिदारुणाभिनवविप्रवासवेदनानिरानन्दस्य नन्दयन्तीमसंमान्य समागतस्य समुद्रतीरे समुद्रदत्तस्योत्कण्ठाप्रकारप्रकाशनम् । द्वितीयमपि-प्रस्थानात् प्रतिनिवृत्य निशीथिन्यामुत्कोचालंकारदानमूकीकृतकुवलयस्य कुसुमवाटिकायामनाकलिताननस्य सहचरीसंगमनम् । तृतीयमपि-संभावितदुर्विनयविजयदत्तनन्दिनीनिर्वासनव्यसननिबन्धनम्। चतुर्थमपि-मथुराप्रतिनिवृत्तकुवलयप्रदर्य मानाङ्गलीयकसमावेदितविमलशीलसंपदः कठोरतरगर्भभारखिन्नायाः स्नुषाया निष्कारणनिष्कासनादनासादिततत्प्रवृत्तेमहापातकिनमात्मानं मन्यमानस्य सार्थवाहसागरदत्तस्य तीर्थयात्राप्रवर्तनम् । पञ्चममपि-वनान्तरे वनपालपालिताया नन्दयन्त्याः कुवलयेन समुद्रदत्तकुशलोदन्तकथनम् । षष्ठमपि

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660